Sukta 1.140
भूषन्न योऽधि बभ्रूषु नम्नते वृषेव पत्नीरभ्येति रोरुवत् । ओजायमानस्तन्वश्च शुम्भते भीमो न शृङ्गा दविधाव दुर्गृभिः ॥
भूष॒न्न योऽधि॑ ब॒भ्रूषु॒ नम्न॑ते॒ वृषे॑व॒ पत्नी॑र॒भ्ये॑ति॒ रोरु॑वत् । ओ॒जा॒यमा॑नस्त॒न्व॑श्च शुम्भते भी॒मो न शृङ्गा॑ दविधाव दु॒र्गृभि॑: ॥
bhūṣan na yo adhi babhrūṣu namnate vṛṣā-iva patnīr abhy eti roruvat | ojāyamānas tanvaś ca śumbhate bhīmo na śṛṅgā davidhāva duḥ-gṛbhiḥ ||
Adorning, he bends over the tawny forms; like a bull he approaches the wives, roaring. Growing in strength he beautifies his bodies; formidable, like horns, he drives on with hard graspings.
भूष॑न् । न । यः । अधि॑ । ब॒भ्रूषु॑ । नम्न॑ते । वृषा॑ऽइव । पत्नीः॑ । अ॒भि । ए॒ति॒ । रोरु॑वत् । ओ॒जा॒यमा॑नः । त॒न्वः॑ । च॒ । शु॒म्भ॒ते॒ । भी॒मः । न । शृङ्गा॑ । द॒वि॒धा॒व॒ । दुः॒ऽगॄभिः॑ ॥भूषन् । न । यः । अधि । बभ्रूषु । नम्नते । वृषाइव । पत्नीः । अभि । एति । रोरुवत् । ओजायमानः । तन्वः । च । शुम्भते । भीमः । न । शृङ्गा । दविधाव । दुःगॄभिः ॥bhūṣan | na | yaḥ | adhi | babhrūṣu | namnate | vṛṣāiva | patnīḥ | abhi | eti | roruvat | ojāyamānaḥ | tanvaḥ | ca | śumbhate | bhīmaḥ | na | śṛṅgā | davidhāva | duḥ-gṝbh iḥ