Sukta 1.140
आदस्य ते ध्वसयन्तो वृथेरते कृष्णमभ्वं महि वर्पः करिक्रतः । यत्सीं महीमवनिं प्राभि मर्मृशदभिश्वसन्त्स्तनयन्नेति नानदत् ॥
आद॑स्य॒ ते ध्व॒सय॑न्तो॒ वृथे॑रते कृ॒ष्णमभ्वं॒ महि॒ वर्प॒: करि॑क्रतः । यत्सीं॑ म॒हीम॒वनिं॒ प्राभि मर्मृ॑शदभिश्व॒सन्त्स्त॒नय॒न्नेति॒ नान॑दत् ॥
ād asya te dhvasayanto vṛthā īrate kṛṣṇam abhvam mahi varpaḥ karikrataḥ | yat sīm mahīm avanim prābhi marmṛśad abhi-śvasan stanayan eti nānadat ||
Then his scatterers rush without hindrance—his vast form in the black vastness makes its working. When he touches and presses forward upon the great earth-foundation, breathing hard, thundering as he goes, he roars aloud.
आत् । अ॒स्य॒ । ते । ध्व॒सय॑न्तः । वृथा॑ । ई॒र॒ते॒ । कृ॒ष्णम् । अभ्व॑म् । महि॑ । वर्पः॑ । करि॑क्रतः । यत् । सी॒म् । म॒हीम् । अ॒वनि॑म् । प्र । अ॒भि । मर्मृ॑शत् । अ॒भि॒ऽश्व॒सन् । स्त॒नयन् । एति॑ । नान॑दत् ॥आत् । अस्य । ते । ध्वसयन्तः । वृथा । ईरते । कृष्णम् । अभ्वम् । महि । वर्पः । करिक्रतः । यत् । सीम् । महीम् । अवनिम् । प्र । अभि । मर्मृशत् । अभिश्वसन् । स्तनयन् । एति । नानदत् ॥āt | asya | te | dhvasayantaḥ | vṛthā | īrate | kṛṣṇam | abhvam | mahi | varpaḥ | karikrataḥ | yat | sīm | mahīm | avanim | pra | abhi | marmṛśat | abhi-śvasan | stanayan | eti | nānadat