Sukta 1.140
मुमुक्ष्वो मनवे मानवस्यते रघुद्रुवः कृष्णसीतास ऊ जुवः । असमना अजिरासो रघुष्यदो वातजूता उप युज्यन्त आशवः ॥
मु॒मु॒क्ष्वो॒३॒॑ मन॑वे मानवस्य॒ते र॑घु॒द्रुव॑: कृ॒ष्णसी॑तास ऊ॒ जुव॑: । अ॒स॒म॒ना अ॑जि॒रासो॑ रघु॒ष्यदो॒ वात॑जूता॒ उप॑ युज्यन्त आ॒शव॑: ॥
mumukṣvo manave mānavasyate raghu-druvaḥ kṛṣṇa-sītāsa ū juvaḥ | asamanā ajirāso raghu-syadaḥ vāta-jūtā upa yujyanta āśavaḥ ||
Release for Manu, for the human who aspires: swift-fixed, dark-harnessed, impetuous. Unchecked, moving fast, swift-gliding, wind-driven, the rapid ones yoke themselves near—powers ready for the journey.
मु॒मु॒क्ष्वः॑ । मन॑वे । मा॒न॒व॒स्य॒ते । र॒घु॒ऽद्रुवः॑ । कृ॒ष्णऽसी॑तासः । ऊँ॒ इति॑ । जुवः॑ । अ॒स॒म॒नाः । अ॒जि॒रासः॑ । र॒घु॒ऽस्यदः॑ । वात॑ऽजूताः । उप॑ । यु॒ज्य॒न्ते॒ । आ॒शवः॑ ॥मुमुक्ष्वः । मनवे । मानवस्यते । रघुद्रुवः । कृष्णसीतासः । ऊँ इति । जुवः । असमनाः । अजिरासः । रघुस्यदः । वातजूताः । उप । युज्यन्ते । आशवः ॥mumukṣvaḥ | manave | mānavasyate | raghu-druvaḥ | kṛṣṇa-sītāsaḥ | oṃ iti | juvaḥ | asamanāḥ | ajirāsaḥ | raghu-syadaḥ | vāta-jūtāḥ | upa | yujyante | āśavaḥ