Sukta 1.140
कृष्णप्रुतौ वेविजे अस्य सक्षिता उभा तरेते अभि मातरा शिशुम् । प्राचाजिह्वं ध्वसयन्तं तृषुच्युतमा साच्यं कुपयं वर्धनं पितुः ॥
कृ॒ष्ण॒प्रुतौ॑ वेवि॒जे अ॑स्य स॒क्षिता॑ उ॒भा त॑रेते अ॒भि मा॒तरा॒ शिशु॑म् । प्रा॒चाजि॑ह्वं ध्व॒सय॑न्तं तृषु॒च्युत॒मा साच्यं॒ कुप॑यं॒ वर्ध॑नं पि॒तुः ॥
kṛṣṇa-prutau vevije asya sa-kṣitau ubhā tarete abhi mātarā śiśum | prācājihvaṃ dhvasayantaṃ tṛṣu-cyutam ā sācyam kupayaṃ vardhanaṃ pituḥ ||
In the dark floods his two dwelling-mothers tremble; both bear and carry the child. With tongue thrust forward he drives away and scatters, slipping through the thirsts; he comes to the right side, a swelling growth of the Father.
कृ॒ष्ण॒ऽप्रुतौ॑ । वे॒वि॒जे इति॑ । अ॒स्य॒ । स॒ऽक्षितौ॑ । उ॒भा । त॒रे॒ते॒ इति॑ । अ॒भि । मा॒तरा॑ । शिशु॑म् । प्रा॒चाऽजि॑ह्वम् । ध्व॒सय॑न्तम् । तृ॒षु॒ऽच्युत॑म् । आ । साच्य॑म् । कुप॑यम् । वर्ध॑नम् । पि॒तुः ॥कृष्णप्रुतौ । वेविजे इति । अस्य । सक्षितौ । उभा । तरेते इति । अभि । मातरा । शिशुम् । प्राचाजिह्वम् । ध्वसयन्तम् । तृषुच्युतम् । आ । साच्यम् । कुपयम् । वर्धनम् । पितुः ॥kṛṣṇa-prutau | vevije iti | asya | sa-kṣitau | ubhā | tarete iti | abhi | mātarā | śiśum | prācājihvam | dhvasayantam | tṛṣu-cyutam | ā | sācyam | kupayam | vardhanam | pituḥ