Sukta 1.140
अभि द्विजन्मा त्रिवृदन्नमृज्यते संवत्सरे वावृधे जग्धमी पुनः । अन्यस्यासा जिह्वया जेन्यो वृषा न्यन्येन वनिनो मृष्ट वारणः ॥
अ॒भि द्वि॒जन्मा॑ त्रि॒वृदन्न॑मृज्यते संवत्स॒रे वा॑वृधे ज॒ग्धमी॒ पुन॑: । अ॒न्यस्या॒सा जि॒ह्वया॒ जेन्यो॒ वृषा॒ न्य१॒॑न्येन॑ व॒निनो॑ मृष्ट वार॒णः ॥
abhi dvi-janmā tri-vṛd annam ṛjyate saṃvatsare vāvṛdhe jagdham īm punaḥ | anyasyā sā jihvayā jenyo vṛṣā ny anyena vanino mṛṣṭa vāraṇaḥ ||
The twice-born is pressed and set in order for the triple food; through the year he grows again after what was consumed. With one mouth and tongue the conquering Bull tastes, and with another he cleanses the seekers—an elephant of force made pure.
अ॒भि । द्वि॒ऽजन्मा॑ । त्रि॒ऽवृत् । अन्न॑म् । ऋ॒ज्य॒ते॒ । स॒व्ँम्व॒त्स॒रे । व॒वृ॒धे॒ । ज॒ग्धम् । ई॒म् इति॑ । पुन॒रिति॑ । अ॒न्यस्य॑ । आ॒सा । जि॒ह्वया॑ । जेन्यः॑ । वृषा॑ । नि । अ॒न्येन॑ । व॒निनः॑ । मृ॒ष्ट॒ । वा॒र॒णः ॥अभि । द्विजन्मा । त्रिवृत् । अन्नम् । ऋज्यते । सव्ँम्वत्सरे । ववृधे । जग्धम् । ईम् इति । पुनरिति । अन्यस्य । आसा । जिह्वया । जेन्यः । वृषा । नि । अन्येन । वनिनः । मृष्ट । वारणः ॥abhi | dvi-janmā | tri-vṛt | annam | ṛjyate | saṃvatsare | vavṛdhe | jagdham | īm iti | punariti | anyasya | āsā | jihvayā | jenyaḥ | vṛṣā | ni | anyena | vaninaḥ | mṛṣṭa | vāraṇaḥ