Sukta 1.140
रथाय नावमुत नो गृहाय नित्यारित्रां पद्वतीं रास्यग्ने । अस्माकं वीराँ उत नो मघोनो जनाँश्च या पारयाच्छर्म या च ॥
रथा॑य॒ नाव॑मु॒त नो॑ गृ॒हाय॒ नित्या॑रित्रां प॒द्वतीं॑ रास्यग्ने । अ॒स्माकं॑ वी॒राँ उ॒त नो॑ म॒घोनो॒ जनाँ॑श्च॒ या पा॒रया॒च्छर्म॒ या च॑ ॥
ráthāya nā́vam utá no gṛhā́ya nítyāritrāṃ patvátīṃ rāsy agne | asmā́kaṃ vīrā́ṃ utá no maghóno jánāṃś ca yā́ pāráyāc chárma yā́ ca ||
For our journey and for our crossing, and also for our home, grant us, O Agni, the ever-oared, winged vessel. Carry across our heroes and our plenitude-bearers, and our people too—by whatever sheltering power can ferry us beyond.
रथा॑य । नाव॑म् । उ॒त । नः॒ । गृ॒हाय॑ । नित्य॑ऽअरित्राम् । प॒त्ऽवती॑म् । रा॒सि॒ । अ॒ग्ने॒ । अ॒स्माक॑म् । वी॒रान् । उ॒त । नः॒ । म॒घोनः॑ । जना॑न् । च॒ । या । पा॒रया॑त् । शर्म॑ । या । च॒ ॥रथाय । नावम् । उत । नः । गृहाय । नित्यअरित्राम् । पत्वतीम् । रासि । अग्ने । अस्माकम् । वीरान् । उत । नः । मघोनः । जनान् । च । या । पारयात् । शर्म । या । च ॥rathāya | nāvam | uta | naḥ | gṛhāya | nitya-aritrām | pat-vatīm | rāsi | agne | asmākam | vīrān | uta | naḥ | maghonaḥ | janān | ca | yā | pārayāt | śarma | yā | ca