Sukta 1.140
अभी नो अग्न उक्थमिज्जुगुर्या द्यावाक्षामा सिन्धवश्च स्वगूर्ताः । गव्यं यव्यं यन्तो दीर्घाहेषं वरमरुण्यो वरन्त ॥
अ॒भी नो॑ अग्न उ॒क्थमिज्जु॑गुर्या॒ द्यावा॒क्षामा॒ सिन्ध॑वश्च॒ स्वगू॑र्ताः । गव्यं॒ यव्यं॒ यन्तो॑ दी॒र्घाहेषं॒ वर॑मरु॒ण्यो॑ वरन्त ॥
abhī́ no agna ukthám íj juguryā dyā́vākṣā́mā síndhavaś ca svágūrtāḥ | gavyáṃ yavyáṃ yánto dīrghā́héṣaṃ váram aruṇyó varanta ||
O Agni, may Heaven-and-Earth and the Rivers, well-guided, awaken our hymn in full intensity. Bringing the cattle-light and the barley-nourishment, they choose the far-reaching delight of the boon; the ruddy powers choose it.
अ॒भि । नः॒ । अ॒ग्ने॒ । उ॒क्थम् । इत् । जु॒गु॒र्याः॒ । द्यावा॒क्षामा॑ । सिन्ध॑वः । च॒ । स्वऽगू॑र्ताः । गव्य॑म् । यव्य॑म् । यन्तः॑ । दी॒र्घा । अहा॑ । इष॑म् । वर॑म् । अ॒रु॒ण्यः॑ । व॒र॒न्त॒ ॥अभि । नः । अग्ने । उक्थम् । इत् । जुगुर्याः । द्यावाक्षामा । सिन्धवः । च । स्वगूर्ताः । गव्यम् । यव्यम् । यन्तः । दीर्घा । अहा । इषम् । वरम् । अरुण्यः । वरन्त ॥abhi | naḥ | agne | uktham | it | juguryāḥ | dyāvākṣāmā | sindhavaḥ | ca | sva-gūrtāḥ | gavyam | yavyam | yantaḥ | dīrghā | ahā | iṣam | varam | aruṇyaḥ | varanta