Sukta 1.139
शचीभिर्नः शचीवसू दिवा नक्तं दशस्यतम् । मा वां रातिरुप दसत्कदा चनास्मद्रातिः कदा चन ॥
शची॑भिर्नः शचीवसू॒ दिवा॒ नक्तं॑ दशस्यतम् । मा वां॑ रा॒तिरुप॑ दस॒त्कदा॑ च॒नास्मद्रा॒तिः कदा॑ च॒न ॥
śácībhiḥ naḥ śacīvasū divā́ náktaṃ daśasyatam | mā vāṃ rātír úpa dasat kádā canā́smad rātíḥ kádā cana ||
By your powers of effective action, O possessors of power, serve us by day and by night. Let not your giving fail to reach us at any time; may our share of your giving never fail at any time.
शची॑भिः । नः॒ । श॒ची॒व॒सू॒ इति॑ शचीऽवसू । दिवा॑ । नक्त॑म् । द॒श॒स्य॒त॒म् । मा । वा॒म् । रा॒तिः । उप॑ । द॒स॒त् । कदा॑ । च॒न । अ॒स्मत् । रा॒तिः । कदा॑ । च॒न ॥शचीभिः । नः । शचीवसू इति शचीवसू । दिवा । नक्तम् । दशस्यतम् । मा । वाम् । रातिः । उप । दसत् । कदा । चन । अस्मत् । रातिः । कदा । चन ॥śacībhiḥ | naḥ | śacīvasūitiśacī-vasū | divā | naktam | daśasyatam | mā | vām | rātiḥ | upa | dasat | kadā | cana | asmat | rātiḥ | kadā | cana