Sukta 1.139
वृषन्निन्द्र वृषपाणास इन्दव इमे सुता अद्रिषुतास उद्भिदस्तुभ्यं सुतास उद्भिदः । ते त्वा मन्दन्तु दावने महे चित्राय राधसे । गीर्भिर्गिर्वाहः स्तवमान आ गहि सुमृळीको न आ गहि ॥
वृष॑न्निन्द्र वृष॒पाणा॑स॒ इन्द॑व इ॒मे सु॒ता अद्रि॑षुतास उ॒द्भिद॒स्तुभ्यं॑ सु॒तास॑ उ॒द्भिद॑: । ते त्वा॑ मन्दन्तु दा॒वने॑ म॒हे चि॒त्राय॒ राध॑से । गी॒र्भिर्गि॑र्वाह॒: स्तव॑मान॒ आ ग॑हि सुमृळी॒को न॒ आ ग॑हि ॥
vṛ́ṣann indra vṛṣa-pā́ṇāsa índava imé sutā́ ádri-sutāsa udbhídaḥ túbhyaṃ sutā́sa udbhídaḥ | té tvā mandantu dā́vane mahé citrā́ya rā́dhase | gī́rbhir girvāhaḥ stávamāna ā́ gahi su-mṛḷī́ko na ā́ gahi ||
O Bull Indra, these Soma drops, bull-strong in their draught, pressed by the stone, breaking open the heights, are pressed for you, breaking open the heights. Let them gladden you for the giving, for the great and manifold plenitude. With our words of inspiration, O bearer of song, praised, come; gracious and full of goodwill, come to us.
वृष॑न् । इ॒न्द्र॒ । वृ॒ष॒ऽपाना॑सः । इन्द॑वः । इ॒मे । सु॒ताः । अद्रि॑ऽसुतासः । उ॒त्ऽभिदः॑ । तुभ्य॑म् । सु॒तासः॑ । उ॒त्ऽभिदः॑ । ते । त्वा॒ । म॒न्द॒न्तु॒ । दा॒वने॑ । म॒हे । चि॒त्राय॑ । राध॑से । गीः॒ऽभिः । गि॒र्वा॒हः॒ । स्तव॑मानः । आ । ग॒हि॒ । सु॒ऽमृ॒ळी॒कः । नः॒ । आ । ग॒हि॒ ॥वृषन् । इन्द्र । वृषपानासः । इन्दवः । इमे । सुताः । अद्रिसुतासः । उत्भिदः । तुभ्यम् । सुतासः । उत्भिदः । ते । त्वा । मन्दन्तु । दावने । महे । चित्राय । राधसे । गीःभिः । गिर्वाहः । स्तवमानः । आ । गहि । सुमृळीकः । नः । आ । गहि ॥vṛṣan | indra | vṛṣa-pānāsaḥ | indavaḥ | ime | sutāḥ | adri-sutāsaḥ | ut-bhi daḥ | tubhyam | sutāsaḥ | ut-bhidaḥ | te | tvā | mandantu | dāvane | mahe | citrāya | rādhase | gīḥ-bhiḥ | girvāhaḥ | stavamānaḥ | ā | gahi | su-mṛḷīkaḥ | naḥ | ā | gahi