Sukta 1.139
युवां स्तोमेभिर्देवयन्तो अश्विनाश्रावयन्त इव श्लोकमायवो युवां हव्याभ्यायवः । युवोर्विश्वा अधि श्रियः पृक्षश्च विश्ववेदसा । प्रुषायन्ते वां पवयो हिरण्यये रथे दस्रा हिरण्यये ॥
यु॒वां स्तोमे॑भिर्देव॒यन्तो॑ अश्विनाश्रा॒वय॑न्त इव॒ श्लोक॑मा॒यवो॑ यु॒वां ह॒व्याभ्या॒३॒॑यव॑: । यु॒वोर्विश्वा॒ अधि॒ श्रिय॒: पृक्ष॑श्च विश्ववेदसा । प्रु॒षा॒यन्ते॑ वां प॒वयो॑ हिर॒ण्यये॒ रथे॑ दस्रा हिर॒ण्यये॑ ॥
yuvā́ṃ stómebhir devayánto aśvinā́śrāvayanta iva ślókām ā́yavo yuvā́ṃ havyā́bhy ā́yavaḥ | yuvór viśvā́ ádhi śríyaḥ pṛ́kṣaś ca viśva-vedasā | pruṣāyánte vāṃ paváyo hiraṇyáye ráthe dasrā hiraṇyáye ||
Seeking the divine, with hymns the Āyus call you, O Aśvins, as if making the luminous word resound; the Āyus press forward to you with the offerings. Upon you are set all splendors and nourishments, O all-knowing ones. Your felly-rims flash on the golden chariot, O wondrous ones, on the golden chariot.
यु॒वाम् । सोमे॑भिः । दे॒व॒ऽयन्तः॑ । अ॒श्वि॒ना॒ । आ॒श्रा॒वय॑न्तःऽइव । श्लोक॑म् । आ॒यवः॑ । यु॒वाम् । ह॒व्या । अ॒भि । आ॒यवः॑ । यु॒वोः । विश्वाः॑ । अधि॑ । श्रियः॑ । पृक्षः॑ । च॒ । वि॒श्व॒ऽवे॒द॒सा॒ । प्रु॒षा॒यन्ते॑ । वा॒म् । प॒वयः॑ । हि॒र॒ण्यये॑ । रथे॑ । द॒स्रा॒ । हि॒र॒ण्यये॑ ॥युवाम् । सोमेभिः । देवयन्तः । अश्विना । आश्रावयन्तःइव । श्लोकम् । आयवः । युवाम् । हव्या । अभि । आयवः । युवोः । विश्वाः । अधि । श्रियः । पृक्षः । च । विश्ववेदसा । प्रुषायन्ते । वाम् । पवयः । हिरण्यये । रथे । दस्रा । हिरण्यये ॥yuvām | somebhiḥ | deva-yantaḥ | aśvinā | āśrāvayantaḥ-iva | ślokam | āyavaḥ | yuvām | havyā | abhi | āyavaḥ | yuvoḥ | viśvāḥ | adhi | śriyaḥ | pṛkṣaḥ | ca | viśva-vedasā | pruṣāyante | vām | pavayaḥ | hiraṇyaye | rathe | dasr | hiraṇyaye