Sukta 1.139
यद्ध त्यन्मित्रावरुणावृतादध्याददाथे अनृतं स्वेन मन्युना दक्षस्य स्वेन मन्युना । युवोरित्थाधि सद्मस्वपश्याम हिरण्ययम् । धीभिश्चन मनसा स्वेभिरक्षभिः सोमस्य स्वेभिरक्षभिः ॥
यद्ध॒ त्यन्मि॑त्रावरुणावृ॒तादध्या॑द॒दाथे॒ अनृ॑तं॒ स्वेन॑ म॒न्युना॒ दक्ष॑स्य॒ स्वेन॑ म॒न्युना॑ । यु॒वोरि॒त्थाधि॒ सद्म॒स्वप॑श्याम हिर॒ण्यय॑म् । धी॒भिश्च॒न मन॑सा॒ स्वेभि॑र॒क्षभि॒: सोम॑स्य॒ स्वेभि॑र॒क्षभि॑: ॥
yád dha tyán mitrā́varuṇāv ṛtā́d ádhy ā́dadāthe anṛ́tam svéna manyúnā dákṣasya svéna manyúnā | yuvór itthā́dhi sádmasv ápaśyāma hiraṇyáyam | dhī́bhiś caná mánasā svébhir ákṣabhiḥ sómasya svébhir ákṣabhiḥ ||
When, O Mitra and Varuṇa, from the Truth you took up and set aside the untruth by your own ardour—by the ardour of Dakṣa—then in your dwelling we beheld the golden (radiance), with our insights and with the mind, with our own seeing-powers, with Soma’s own seeing-powers.
यत् । ह॒ । त्यत् । मि॒त्रा॒व॒रु॒णौ॒ । ऋ॒तात् । अधि॑ । आ॒द॒दाथे॒ इत्या॑ऽद॒दाथे॑ । अनृ॑तम् । स्वेन॑ । म॒न्युना॑ । दक्ष॑स्य । स्वेन॑ । म॒न्युना॑ । यु॒वोः । इ॒त्था । अधि॑ । सद्म॑ऽसु । अप॑श्याम । हि॒र॒ण्यय॑म् । धी॒भिः । च॒न । मन॑सा । स्वेभिः॑ । अ॒क्षऽभिः॑ । सोम॑स्य । स्वेभिः॑ । अ॒क्षऽभिः॑ ॥यत् । ह । त्यत् । मित्रावरुणौ । ऋतात् । अधि । आददाथे इत्याददाथे । अनृतम् । स्वेन । मन्युना । दक्षस्य । स्वेन । मन्युना । युवोः । इत्था । अधि । सद्मसु । अपश्याम । हिरण्ययम् । धीभिः । चन । मनसा । स्वेभिः । अक्षभिः । सोमस्य । स्वेभिः । अक्षभिः ॥yat | ha | tyat | mitrāvaruṇau | ṛtāt | adhi | ādadātheity ādadāthe | anṛtam | svena | manyunā | dakṣasya | svena | manyunā | yuvoḥ | itthā | adhi | sadma-su | apaśyāma | hiraṇyayam | dhībhiḥ | cana | manasā | svebhiḥ | akṣa-bhiḥ | somasya | svebhiḥ | akṣa-bhiḥ