Sukta 1.139
अस्तु श्रौषट् पुरो अग्निं धिया दध आ नु तच्छर्धो दिव्यं वृणीमह इन्द्रवायू वृणीमहे । यद्ध क्राणा विवस्वति नाभा संदायि नव्यसी । अध प्र सू न उप यन्तु धीतयो देवाँ अच्छा न धीतयः ॥
अस्तु॒ श्रौष॑ट् पु॒रो अ॒ग्निं धि॒या द॑ध॒ आ नु तच्छर्धो॑ दि॒व्यं वृ॑णीमह इन्द्रवा॒यू वृ॑णीमहे । यद्ध॑ क्रा॒णा वि॒वस्व॑ति॒ नाभा॑ सं॒दायि॒ नव्य॑सी । अध॒ प्र सू न॒ उप॑ यन्तु धी॒तयो॑ दे॒वाँ अच्छा॒ न धी॒तय॑: ॥
ástu śráuṣaṭ puró agním dhiyā́ dadhā á nu tát śárdho divyám vṛṇīmahe indravāyū́ vṛṇīmahe | yád dha krāṇā́ vivásvati nā́bhā sam-dā́yi návyasī́ | ádha prá sú na úpa yantu dhītáyo devā́n ácchā ná dhītáyaḥ ||
Let it be; let the call be heard. First, I place Agni in the thought. Then we choose that divine host; we choose Indra and Vāyu. When the new inspiration is joined at the navel of Vivāsvat, then may our thought-formations go forward and approach the gods—yes, may our thought-formations approach.
अस्तु॑ । श्रौष॑ट् । पु॒रः । अ॒ग्निम् । धि॒या । द॒धे॒ । आ । नु । तत् । शर्धः॑ । दि॒व्यम् । वृ॒णी॒म॒हे॒ । इ॒न्द्र॒वा॒यू इति॑ । वृ॒णी॒म॒हे॒ । यत् । ह॒ । क्रा॒णा । वि॒वस्व॑ति । नाभा॑ । स॒म्ऽदायि॑ । नव्य॑सी । अध॑ । प्र । सु । नः॒ । उप॑ । य॒न्तु॒ । धी॒तयः॑ । दे॒वान् । अच्छ॑ । न । धी॒तयः॑ ॥अस्तु । श्रौषट् । पुरः । अग्निम् । धिया । दधे । आ । नु । तत् । शर्धः । दिव्यम् । वृणीमहे । इन्द्रवायू इति । वृणीमहे । यत् । ह । क्राणा । विवस्वति । नाभा । सम्दायि । नव्यसी । अध । प्र । सु । नः । उप । यन्तु । धीतयः । देवान् । अच्छ । न । धीतयः ॥astu | śrauṣaṭ | puraḥ | agnim | dhiyā | dadhe | ā | nu | tat | śardhaḥ | divyam | vṛṇīmahe | indravāyū iti | vṛṇīmahe | yat | ha | krāṇā | vivasyati | nābhā | sam-dāyi | navyasī | agha | pra | su | naḥ | upa | yantu | dhītayaḥ | devān | accha | na | dhītayaḥ