Sukta 1.136
नमो दिवे बृहते रोदसीभ्यां मित्राय वोचं वरुणाय मीळ्हुषे सुमृळीकाय मीळ्हुषे । इन्द्रमग्निमुप स्तुहि द्युक्षमर्यमणं भगम् । ज्योग्जीवन्तः प्रजया सचेमहि सोमस्योती सचेमहि ॥
नमो॑ दि॒वे बृ॑ह॒ते रोद॑सीभ्यां मि॒त्राय॑ वोचं॒ वरु॑णाय मी॒ळ्हुषे॑ सुमृळी॒काय॑ मी॒ळ्हुषे॑ । इन्द्र॑म॒ग्निमुप॑ स्तुहि द्यु॒क्षम॑र्य॒मणं॒ भग॑म् । ज्योग्जीव॑न्तः प्र॒जया॑ सचेमहि॒ सोम॑स्यो॒ती स॑चेमहि ॥
námo divé bṛhaté ródasībhyāṃ mitrā́ya vocaṃ váruṇāya mīḷhúṣe sumṛḷīkā́ya mīḷhúṣe | índram agním úpa stuhi dyukṣám aryamā́ṇaṃ bhágam | jyóg jī́vantaḥ prajáyā sacemahi sómasyotī́ sacemahi ||
Reverence to the vast Heaven and to the two Worlds; I speak for Mitra, for Varuṇa the bountiful, for the gracious bountiful. Praise also Indra and Agni, the shining Aryaman, Bhaga. Living long, may we be joined with offspring; may we be joined with the protection of Soma.
नमः॑ । दि॒वे । बृ॒ह॒ते । रोद॑सीभ्याम् । मि॒त्राय॑ । वोच॑म् । वरु॑णाय । मी॒ळ्हुषे॑ । सु॒ऽमृ॒ळी॒काय॑ । मी॒ळ्हुषे॑ । इन्द्र॑म् । अ॒ग्निम् । उप॑ । स्तु॒हि॒ । द्यु॒क्षम् । अ॒र्य॒मण॑म् । भग॑म् । ज्योक् । जीव॑न्तः । प्र॒ऽजया॑ । स॒चे॒म॒हि॒ । सोम॑स्य । ऊ॒ती । स॒चे॒म॒हि॒ ॥नमः । दिवे । बृहते । रोदसीभ्याम् । मित्राय । वोचम् । वरुणाय । मीळ्हुषे । सुमृळीकाय । मीळ्हुषे । इन्द्रम् । अग्निम् । उप । स्तुहि । द्युक्षम् । अर्यमणम् । भगम् । ज्योक् । जीवन्तः । प्रजया । सचेमहि । सोमस्य । ऊती । सचेमहि ॥namaḥ | dive | bṛhate | rodasībhyām | mitrāya | vocam | varuṇāya | mīḷhuṣe | su-mṛḷīkāya | mīḷhuṣe | indram | agnim | upa | stuhi | dyukṣam | aryamaṇam | bhagam | jyok | jīvantaḥ | pra-jayā | sacemahi | somasya | ūtī | sacemahi