Sukta 1.136
ऊती देवानां वयमिन्द्रवन्तो मंसीमहि स्वयशसो मरुद्भिः । अग्निर्मित्रो वरुणः शर्म यंसन्तदश्याम मघवानो वयं च ॥
ऊ॒ती दे॒वानां॑ व॒यमिन्द्र॑वन्तो मंसी॒महि॒ स्वय॑शसो म॒रुद्भि॑: । अ॒ग्निर्मि॒त्रो वरु॑ण॒: शर्म॑ यंस॒न्तद॑श्याम म॒घवा॑नो व॒यं च॑ ॥
ūtī́ devā́nāṃ vayám índra-vanto maṃsī́mahi sváyaśaso marúdbhiḥ | agnír mitró váruṇaḥ śárma yaṃsan tád aśyāma maghávāno vayáṃ ca ||
We, upheld by Indra, with the self-luminous Maruts, seek the help of the gods. May Agni, Mitra, Varuṇa extend to us the sheltering peace; may we, the possessors of the offering-force, attain that.
ऊ॒ती । दे॒वाना॑म् । व॒यम् । इन्द्र॑ऽवन्तः । मं॒सी॒महि॑ । स्वऽय॑शसः । म॒रुत्ऽभिः॑ । अ॒ग्निः । मि॒त्रः । वरु॑णः । शर्म॑ । यंस॑न् । तत् । अ॒श्या॒म॒ । म॒घऽवा॑नः । व॒यम् । च॒ ॥ऊती । देवानाम् । वयम् । इन्द्रवन्तः । मंसीमहि । स्वयशसः । मरुत्भिः । अग्निः । मित्रः । वरुणः । शर्म । यंसन् । तत् । अश्याम । मघवानः । वयम् । च ॥ūtī | devānām | viyam | indra-vantaḥ | maṃsīmahi | sva-yaśasaḥ | marut-bhiḥ | agniḥ | mitraḥ | varuṇaḥ | śarma | yaṃsan | tat | aśyāma | magha-vānaḥ | vayam | ca