Sukta 1.136
यो मित्राय वरुणायाविधज्जनोऽनर्वाणं तं परि पातो अंहसो दाश्वांसं मर्तमंहसः । तमर्यमाभि रक्षत्यृजूयन्तमनु व्रतम् । उक्थैर्य एनोः परिभूषति व्रतं स्तोमैराभूषति व्रतम् ॥
यो मि॒त्राय॒ वरु॑णा॒यावि॑ध॒ज्जनो॑ऽन॒र्वाणं॒ तं परि॑ पातो॒ अंह॑सो दा॒श्वांसं॒ मर्त॒मंह॑सः । तम॑र्य॒माभि र॑क्षत्यृजू॒यन्त॒मनु॑ व्र॒तम् । उ॒क्थैर्य ए॑नोः परि॒भूष॑ति व्र॒तं स्तोमै॑रा॒भूष॑ति व्र॒तम् ॥
yó mitrā́ya váruṇāyā́vidhaj jáno ’narvā́ṇaṃ táṃ pári pāto áṃhasaḥ dāśvā́ṃsaṃ mártam áṃhasaḥ | tám aryamā́bhí rakṣaty ṛjūyántam ánu vrátam | ukthaíryá enóḥ paribhū́ṣati vrátam stómair ābhū́ṣati vrátam ||
The mortal who serves Mitra and Varuṇa with an undivided will—guard him on every side from the narrowing wrong, the giver, the human, from the wrong. Aryaman protects him who goes straight, following the law of the being. He who adorns the law with inspired speech, who beautifies the law with hymns, is safeguarded.
यः । मि॒त्राय॑ । वरु॑णाय । अवि॑धत् । जनः॑ । अ॒न॒र्वाण॑म् । तम् । परि॑ । पा॒तः॒ । अंह॑सः । दा॒श्वांस॑म् । मर्त॑म् । अंह॑सः । तम् । अ॒र्य॒मा । अ॒भि । र॒क्ष॒ति॒ । ऋ॒जु॒ऽयन्त॑म् । अनु॑ । व्र॒तम् । उ॒क्थैः । यः । ए॒नोः॒ । प॒रि॒ऽभूष॑ति । व्र॒तम् । स्तोमैः॑ । आ॒ऽभूष॑ति । व्र॒तम् ॥यः । मित्राय । वरुणाय । अविधत् । जनः । अनर्वाणम् । तम् । परि । पातः । अंहसः । दाश्वांसम् । मर्तम् । अंहसः । तम् । अर्यमा । अभि । रक्षति । ऋजुयन्तम् । अनु । व्रतम् । उक्थैः । यः । एनोः । परिभूषति । व्रतम् । स्तोमैः । आभूषति । व्रतम् ॥yaḥ | mitrāya | varuṇāya | avidhat | janaḥ | anarvāṇam | tam | pari | pātaḥ | aṃhasaḥ | dāśvāṃsam | martam | aṃhasaḥ | tam | aryamā | abhi | rakṣati | ṛju-yantam | anu | vratam | ukthaiḥ | yaḥ | enoḥ | pari-bhūṣati | vratam | stomaiḥ | ābhūṣati | vrtam