Sukta 1.136
अयं मित्राय वरुणाय शंतमः सोमो भूत्ववपानेष्वाभगो देवो देवेष्वाभगः । तं देवासो जुषेरत विश्वे अद्य सजोषसः । तथा राजाना करथो यदीमह ऋतावाना यदीमहे ॥
अ॒यं मि॒त्राय॒ वरु॑णाय॒ शंत॑म॒: सोमो॑ भूत्वव॒पाने॒ष्वाभ॑गो दे॒वो दे॒वेष्वाभ॑गः । तं दे॒वासो॑ जुषेरत॒ विश्वे॑ अ॒द्य स॒जोष॑सः । तथा॑ राजाना करथो॒ यदीम॑ह॒ ऋता॑वाना॒ यदीम॑हे ॥
ayám mitrā́ya váruṇāya śáṃtamaḥ sómo bhūtv avapānéṣv ā́bhago devó devéṣv ā́bhagaḥ | táṃ devā́so juṣerata víśve adyá sajóṣasaḥ | tathā́ rājānā karatho yád ī́mahe ṛ́tāvānā yád ī́mahe ||
This Soma, becoming most peace-giving for Mitra and Varuṇa, is a share of bliss in the libations, a divine portion among the gods. Let all the gods today enjoy it in one accord. So, O two kings, make effective what we seek—O you who are possessed of ṛta—what we seek.
अ॒यम् । मि॒त्राय॑ । वरु॑णाय॑ । शम्ऽत॑मः । सोमः॑ । भू॒तु॒ । अ॒व॒ऽपाने॑षु । आऽभ॑गः । दे॒वः । दे॒वेषु॑ । आऽभ॑गः । तम् । दे॒वासः॑ । जु॒षे॒र॒त॒ । विश्वे॑ । अ॒द्य । स॒ऽजोष॑सः । तथा॑ । रा॒जा॒ना॒ । क॒र॒थः॒ । यत् । ईम॑हे । ऋत॑ऽवाना । यत् । ईम॑हे ॥अयम् । मित्राय । वरुणाय । शम्तमः । सोमः । भूतु । अवपानेषु । आभगः । देवः । देवेषु । आभगः । तम् । देवासः । जुषेरत । विश्वे । अद्य । सजोषसः । तथा । राजाना । करथः । यत् । ईमहे । ऋतवाना । यत् । ईमहे ॥ayam | mitrāya | varuṇāya | śam-tamaḥ | somaḥ | bhūtu | ava-pāneṣu | ābhagaḥ | devaḥ | deveṣu | ābhagaḥ | tam | devāsaḥ | juṣerata | viśve | adya | sa-joṣasaḥ | tathā | rājānā | karathaḥ | yat | īmahe | ṛta-vānā | yat | īmahe