Sukta 1.136
ज्योतिष्मतीमदितिं धारयत्क्षितिं स्वर्वतीमा सचेते दिवेदिवे जागृवांसा दिवेदिवे । ज्योतिष्मत्क्षत्रमाशाते आदित्या दानुनस्पती । मित्रस्तयोर्वरुणो यातयज्जनोऽर्यमा यातयज्जनः ॥
ज्योति॑ष्मती॒मदि॑तिं धार॒यत्क्षि॑तिं॒ स्व॑र्वती॒मा स॑चेते दि॒वेदि॑वे जागृ॒वांसा॑ दि॒वेदि॑वे । ज्योति॑ष्मत्क्ष॒त्रमा॑शाते आदि॒त्या दानु॑न॒स्पती॑ । मि॒त्रस्तयो॒र्वरु॑णो यात॒यज्ज॑नोऽर्य॒मा या॑त॒यज्ज॑नः ॥
jyótiṣmatīm aditím dhāráyat-kṣítim svàr-vatīm ā sacete divé-dive jāgṛvā́ṃsā divé-dive | jyótiṣmat-kṣatrám āśāte ādityā dā́nunas-pátī | mitrás táyor váruṇo yātayáj-jano ’ryamā́ yātayáj-janaḥ ||
Holding aloft the luminous Aditi—foundation of the unperishing earth and bearer of the solar heaven—they come to us day after day, ever-wakeful, day after day. The Ādityas, lords of the flowing abundance, aspire to a radiant sovereignty (kṣatra). Mitra among them, Varuṇa who sets right the peoples, and Aryaman who sets right the peoples.
ज्योति॑ष्मतीम् । अदि॑तिम् । धा॒र॒यत् ऽक्षि॑तिम् । स्वः॑ऽवतीम् । आ । स॒चे॒ते॒ इति॑ । दि॒वेऽदि॑वे । जा॒गृ॒ऽवांसा॑ । दि॒वेऽदि॑वे । ज्योति॑श्मत् । क्ष॒त्रम् । आ॒शा॒ते॒ इति॑ । आ॒दि॒त्या । दानु॑नः । पती॑ । मि॒त्रः । तयोः॑ । वरु॑णः । या॒त॒यत्ऽज॑नः । अ॒र्य॒मा । या॒त॒यत्ऽज॑नः ॥ज्योतिष्मतीम् । अदितिम् । धारयत् क्षितिम् । स्वःवतीम् । आ । सचेते इति । दिवेदिवे । जागृवांसा । दिवेदिवे । ज्योतिश्मत् । क्षत्रम् । आशाते इति । आदित्या । दानुनः । पती । मित्रः । तयोः । वरुणः । यातयत्जनः । अर्यमा । यातयत्जनः ॥jyotiṣmatīm | aditim | dhārayat--kṣitim | svaḥ-vatīm | ā | saceteiti | dive--dive | jāgṛ-vāṃsā | dive--dive | jyotiśmat | kṣatram | āśāteiti | ādityā | dānunaḥ | patī | mitraḥ | tayoḥ | varuṇaḥ | yātayat-janaḥ | aryamā | yātayat-janaḥ