Sukta 1.136
अदर्शि गातुरुरवे वरीयसी पन्था ऋतस्य समयंस्त रश्मिभिश्चक्षुर्भगस्य रश्मिभिः । द्युक्षं मित्रस्य सादनमर्यम्णो वरुणस्य च । अथा दधाते बृहदुक्थ्यं वय उपस्तुत्यं बृहद्वयः ॥
अद॑र्शि गा॒तुरु॒रवे॒ वरी॑यसी॒ पन्था॑ ऋ॒तस्य॒ सम॑यंस्त र॒श्मिभि॒श्चक्षु॒र्भग॑स्य र॒श्मिभि॑: । द्यु॒क्षं मि॒त्रस्य॒ साद॑नमर्य॒म्णो वरु॑णस्य च । अथा॑ दधाते बृ॒हदु॒क्थ्यं१॒॑ वय॑ उप॒स्तुत्यं॑ बृ॒हद्वय॑: ॥
ádarśi gātúr uravé varī́yasī pánthā ṛtásya sám ayaṃsta raśmíbhis cákṣur bhágasya raśmíbhíḥ | dyukṣáṃ mitrásya sā́danam aryámṇo váruṇasya ca | áthā dadhāte bṛhád ukthyáṃ váya upa-stutyáṃ bṛhád váyaḥ ||
A wider path has been seen for the wide one: the path of Truth has been set in harmony by rays—by the rays that are the vision of Bhaga. The luminous seat of Mitra, of Aryaman, and of Varuṇa—then they establish the vast wing of inspired utterance, the vast wing worthy of praise.
अद॑र्शि । गा॒तुः । उ॒रवे॑ । वरी॑यसी । पन्थाः॑ । ऋ॒तस्य॑ । सम् । अ॒यं॒स्त॒ । र॒श्मिऽभिः॑ । चक्षुः॑ । भग॑स्य । र॒श्मिऽभिः॑ । द्यु॒क्षम् । मि॒त्रस्य॑ । साद॑नम् । अ॒र्य॒म्णः । वरु॑णस्य । च॒ । अथ॑ । द॒धा॒ते॒ इति॑ । बृ॒हत् । उ॒क्थ्य॑म् । वयः॑ । उ॒प॒ऽस्तुत्य॑म् । बृ॒हत् । वयः॑ ॥अदर्शि । गातुः । उरवे । वरीयसी । पन्थाः । ऋतस्य । सम् । अयंस्त । रश्मिभिः । चक्षुः । भगस्य । रश्मिभिः । द्युक्षम् । मित्रस्य । सादनम् । अर्यम्णः । वरुणस्य । च । अथ । दधाते इति । बृहत् । उक्थ्यम् । वयः । उपस्तुत्यम् । बृहत् । वयः ॥adarśi | gātuḥ | urave | varīyasī | panthāḥ | ṛtasya | sam | ayaṃsta | raśmi-bhiḥ | cakṣuḥ | bhagasya | raśmi-bhiḥ | dyukṣam | mitrasya | sādanam | aryamṇaḥ | varuṇasya | ca | atha | dadhāteiti | bṛhat | ukthyam | vayaḥ | upa-stutyam | bṛhat | vayaḥ