Sukta 1.136
प्र सु ज्येष्ठं निचिराभ्यां बृहन्नमो हव्यं मतिं भरता मृळयद्भ्यां स्वादिष्ठं मृळयद्भ्याम् । ता सम्राजा घृतासुती यज्ञेयज्ञ उपस्तुता । अथैनोः क्षत्रं न कुतश्चनाधृषे देवत्वं नू चिदाधृषे ॥
प्र सु ज्येष्ठं॑ निचि॒राभ्यां॑ बृ॒हन्नमो॑ ह॒व्यं म॒तिं भ॑रता मृळ॒यद्भ्यां॒ स्वादि॑ष्ठं मृळ॒यद्भ्या॑म् । ता स॒म्राजा॑ घृ॒तासु॑ती य॒ज्ञेय॑ज्ञ॒ उप॑स्तुता । अथै॑नोः क्ष॒त्रं न कुत॑श्च॒नाधृषे॑ देव॒त्वं नू चि॑दा॒धृषे॑ ॥
prá sú jyeṣṭháṃ ni-cirā́bhyāṃ bṛhán námo havyáṃ matíṃ bharatā mṛḷayád-bhyāṃ svādiṣṭháṃ mṛḷayád-bhyām | tā́ sam-rā́jā ghṛtā́sutī yajñé-yajñe úpa-stutā | áthai noḥ kṣatráṃ ná kútaś canā́dhṛṣe deva-tváṃ nú cit ā́dhṛṣe ||
Bring forth the vast, the eldest reverence—an offering of thought—for the two long-enduring, the two who give mercy, the most sweetly gracious. Those two sovereign kings, rich in clarified delight, praised at every sacrifice—then their power of rule is nowhere assailable, nor even their divinity can be assailed.
प्र । सु । ज्येष्ठ॑म् । नि॒ऽचि॒राभ्या॑म् । बृ॒हत् । नमः॑ । ह॒व्यम् । म॒तिम् । भ॒र॒त॒ । मृ॒ळ॒यत्ऽभ्या॑म् । स्वादि॑ष्ठम् । मृ॒ळ॒यत्ऽभ्या॑म् । ता । स॒म्ऽराजा॑ । घृ॒तासु॑ती॒ इति॑ घृ॒तऽआ॑सुती । य॒ज्ञेऽय॑ज्ञे । उप॑ऽस्तुता । अथ॑ । ए॒नोः॒ । क्ष॒त्रम् । न । कुतः॑ । च॒न । आ॒ऽधृषे॑ । दे॒व॒ऽत्वम् । नु । चि॒त् । आ॒ऽधृषे॑ ॥प्र । सु । ज्येष्ठम् । निचिराभ्याम् । बृहत् । नमः । हव्यम् । मतिम् । भरत । मृळयत्भ्याम् । स्वादिष्ठम् । मृळयत्भ्याम् । ता । सम्राजा । घृतासुती इति घृतआसुती । यज्ञेयज्ञे । उपस्तुता । अथ । एनोः । क्षत्रम् । न । कुतः । चन । आधृषे । देवत्वम् । नु । चित् । आधृषे ॥pra | su | jyeṣṭham | ni-cirābhyām | bṛhat | namaḥ | havyam | matim | bharata | mṛḷayat-bhyām | svādiṣṭham | mṛḷayat-bhyām | tā | sam-rājā | ghṛtāsutī itighṛta-āsutī | yajñe--yajñe | upa-stutā | atha | enoḥ | kṣatram | na | kutaḥ | cana | ādhṛṣe | deva-tvam | nu | cit | ādhṛṣe