Sukta 1.135
अत्राह तद्वहेथे मध्व आहुतिं यमश्वत्थमुपतिष्ठन्त जायवोऽस्मे ते सन्तु जायवः । साकं गावः सुवते पच्यते यवो न ते वाय उप दस्यन्ति धेनवो नाप दस्यन्ति धेनवः ॥
अत्राह॒ तद्व॑हेथे॒ मध्व॒ आहु॑तिं॒ यम॑श्व॒त्थमु॑प॒तिष्ठ॑न्त जा॒यवो॒ऽस्मे ते स॑न्तु जा॒यव॑: । सा॒कं गाव॒: सुव॑ते॒ पच्य॑ते॒ यवो॒ न ते॑ वाय॒ उप॑ दस्यन्ति धे॒नवो॒ नाप॑ दस्यन्ति धे॒नव॑: ॥
atrā́ha tád vahethe mádhva ā́hutiṃ yám aśvatthám upa-tíṣṭhanta jā́yavo ’smé té santu jā́yavaḥ | sā́kaṃ gā́vaḥ súvate pácyate yávo ná te vāya úpa dasyanti dhénavo nā́pa dasyanti dhénavaḥ ||
Here indeed you two bear that honey-offering—where the companions gather around the aśvattha; may those companions be with us. Together the rays of Light are brought to birth; the grain of force is ripened. For you, O Vāyu, the fostering powers do not fail; the nourishing streams do not withdraw.
अत्र॑ । अह॑ । तत् । व॒हे॒थे॒ इति॑ । मध्वः॑ । आऽहु॑तिम् । यम् । अ॒श्व॒त्थम् । उ॒प॒ऽतिष्ठ॑न्त । जा॒यवः॑ । अ॒स्मे इति॑ । ते । स॒न्तु॒ । जा॒यवः॑ । सा॒कम् । गावः॑ । सुव॑ते । पच्य॑ते । यवः॑ । न । ते॒ । वा॒यो॒ इति॑ । उप॑ । द॒स्य॒न्ति॒ । धे॒नवः॑ । न । अप॑ । द॒स्य॒न्ति॒ । धे॒नवः॑ ॥अत्र । अह । तत् । वहेथे इति । मध्वः । आहुतिम् । यम् । अश्वत्थम् । उपतिष्ठन्त । जायवः । अस्मे इति । ते । सन्तु । जायवः । साकम् । गावः । सुवते । पच्यते । यवः । न । ते । वायो इति । उप । दस्यन्ति । धेनवः । न । अप । दस्यन्ति । धेनवः ॥atra | aha | tat | vahetheiti | madhvaḥ | āhutim | yam | aśvattham | upa-tiṣṭhanta | jāyavaḥ | asme iti | te | santu | jāyavaḥ | sākam | gāvaḥ | suvate | pacyate | yavaḥ | na | te | vāyo iti | upa | dasyanti | dhenavaḥ | na | apa | dasyanti | dhenavaḥ