Sukta 1.135
अति वायो ससतो याहि शश्वतो यत्र ग्रावा वदति तत्र गच्छतं गृहमिन्द्रश्च गच्छतम् । वि सूनृता ददृशे रीयते घृतमा पूर्णया नियुता याथो अध्वरमिन्द्रश्च याथो अध्वरम् ॥
अति॑ वायो सस॒तो या॑हि॒ शश्व॑तो॒ यत्र॒ ग्रावा॒ वद॑ति॒ तत्र॑ गच्छतं गृ॒हमिन्द्र॑श्च गच्छतम् । वि सू॒नृता॒ ददृ॑शे॒ रीय॑ते घृ॒तमा पू॒र्णया॑ नि॒युता॑ याथो अध्व॒रमिन्द्र॑श्च याथो अध्व॒रम् ॥
áti vāyo sasatáḥ yāhi śáśvato yátra grā́vā váditi tátra gacchatam gṛhám índraś ca gacchatam | ví sūnṛ́tā dadṛśe rī́yate ghṛtám ā́ pū́rṇayā ni-yútā yātho adhvarám índraś ca yātho adhvarám ||
O Vāyu, pass beyond the ever-moving, come from the everlasting; where the pressing-stone speaks, go there—go to the home, and Indra too go. The luminous right-word becomes visible; the ghee of clarity streams forth. With the full yoking of your powers go to the sacrifice—go to the sacrifice, and Indra too.
अति॑ । वा॒यो॒ इति॑ । स॒स॒तः । या॒हि॒ । शश्व॑तः । यत्र॑ । ग्रावा॑ । वद॑ति । तत्र॑ । ग॒च्छ॒त॒म् । गृ॒हम् । इन्द्रः॑ । च॒ । ग॒च्छ॒त॒म् । वि । सू॒नृता॑ । ददृ॑शे । रीय॑ते । घृ॒तम् । आ । पू॒र्णया॑ । नि॒ऽयुता॑ । या॒थः॒ । अ॒ध्व॒रम् । इन्द्रः॑ । च॒ । या॒थः॒ । अ॒ध्व॒रम् ॥अति । वायो इति । ससतः । याहि । शश्वतः । यत्र । ग्रावा । वदति । तत्र । गच्छतम् । गृहम् । इन्द्रः । च । गच्छतम् । वि । सूनृता । ददृशे । रीयते । घृतम् । आ । पूर्णया । नियुता । याथः । अध्वरम् । इन्द्रः । च । याथः । अध्वरम् ॥ati | vāyo iti | sasataḥ | yāhi | śaśvataḥ | yatra | grāvā | vadati | tatra | gacchatam | gṛham | indraḥ | ca | gacchatam | vi | sūnṛtā | dadṛśe | rīyate | ghṛtam | ā | pūrṇayā | ni-yutā | yāthaḥ | adhvaram | indraḥ | ca | yāthaḥ | adhvaram