Sukta 1.135
इमे वां सोमा अप्स्वा सुता इहाध्वर्युभिर्भरमाणा अयंसत वायो शुक्रा अयंसत । एते वामभ्यसृक्षत तिरः पवित्रमाशवः । युवायवोऽति रोमाण्यव्यया सोमासो अत्यव्यया ॥
इ॒मे वां॒ सोमा॑ अ॒प्स्वा सु॒ता इ॒हाध्व॒र्युभि॒र्भर॑माणा अयंसत॒ वायो॑ शु॒क्रा अ॑यंसत । ए॒ते वा॑म॒भ्य॑सृक्षत ति॒रः प॒वित्र॑मा॒शव॑: । यु॒वा॒यवोऽति॒ रोमा॑ण्य॒व्यया॒ सोमा॑सो॒ अत्य॒व्यया॑ ॥
imé vāṃ sómā apsv ā́ sutā́ ihā́dhvaryúbhir bháramāṇā ayaṃsata vāyo śukrā́ ayaṃsata | eté vāṃ abhy àsṛkṣata tiráḥ pavítram āśávaḥ | yuvā́yavo ’ti rómāṇy avyáyā sómāso ’ty avyáyā ||
These Soma-juices are pressed here in the waters; borne by the Adhvaryu priests they have come forward—O Vāyu, they have come bright. These swift streams have run toward you, passing beyond the filter. Young and impetuous, the Soma currents surge over the fleece—over the woollen strainer they surge.
इ॒मे । वा॒म् । सोमाः॑ । अ॒प्ऽसु । आ । सु॒ताः । इ॒ह । अ॒ध्व॒र्युऽभिः॑ । भर॑माणाः । अ॒यं॒स॒त॒ । वायो॒ इति॑ । शु॒क्राः । अ॒यं॒स॒त॒ । ए॒ते । वा॒म् । अ॒भि । अ॒सृ॒क्ष॒त॒ । ति॒रः । प॒वित्र॑म् । आ॒शवः॑ । यु॒वा॒ऽयवः॑ । अति॑ । रोमा॑णि । अ॒व्यया॑ । सोमा॑सः । अति॑ । अ॒व्यया॑ ॥इमे । वाम् । सोमाः । अप्सु । आ । सुताः । इह । अध्वर्युभिः । भरमाणाः । अयंसत । वायो इति । शुक्राः । अयंसत । एते । वाम् । अभि । असृक्षत । तिरः । पवित्रम् । आशवः । युवायवः । अति । रोमाणि । अव्यया । सोमासः । अति । अव्यया ॥ime | vām | somāḥ | ap-su | ā | sutāḥ | iha | adhvaryu-bhiḥ | bharamāṇāḥ | ayaṃsata | vāyo iti | śukrāḥ | ayaṃsata | ete | vām | abhi | asṛkṣata | tiraḥ | pavitram | āśavaḥ | yuvāyavaḥ | ati | romāṇi | avyayā | somāsaḥ | ati | avyayā