Sukta 1.135
आ वां धियो ववृत्युरध्वराँ उपेममिन्दुं मर्मृजन्त वाजिनमाशुमत्यं न वाजिनम् । तेषां पिबतमस्मयू आ नो गन्तमिहोत्या । इन्द्रवायू सुतानामद्रिभिर्युवं मदाय वाजदा युवम् ॥
आ वां॒ धियो॑ ववृत्युरध्व॒राँ उपे॒ममिन्दुं॑ मर्मृजन्त वा॒जिन॑मा॒शुमत्यं॒ न वा॒जिन॑म् । तेषां॑ पिबतमस्म॒यू आ नो॑ गन्तमि॒होत्या । इन्द्र॑वायू सु॒ताना॒मद्रि॑भिर्यु॒वं मदा॑य वाजदा यु॒वम् ॥
ā́ vāṃ dhíyo vavṛtyur adhvarā́m̐ upémám índuṃ marmṛjanta vā́jinam āśúm átyaṃ ná vā́jinam | téṣāṃ píbatam asma-yū́ ā́ no gantam ihótyā́ | índra-vāyū sutā́nām ádribhir yuvám madā́ya vā́ja-dā yuvám ||
Our thoughts have turned toward you to the sacrifice; they cleanse this Soma-drop, swift and forceful like a racing steed. Drink of these, O seekers of us; come to us here with your aid. O Indra and Vāyu, from the pressed Soma by the stones—may you two come for ecstasy, you two who give the plenitude of force.
आ । वा॒म् । धियः॑ । व॒वृ॒त्युः॒ । अ॒ध्व॒रान् । उप॑ । इ॒मम् । इन्दु॑म् । म॒र्मृ॒ज॒न्त॒ । वा॒जिन॑म् । आ॒शुम् । अत्य॑म् । न । वा॒जिन॑म् । तेषा॑म् । पि॒ब॒त॒म् । अ॒स्म॒यू इत्य॑स्म॒ऽयू । आ । नः॒ । ग॒न्त॒म् । इ॒ह । ऊ॒त्या । इन्द्र॑वायू॒ इति॑ । सु॒ताना॑म् । अद्रि॑ऽभिः । यु॒वम् । मदा॑य । वा॒ज॒ऽदा॒ । यु॒वम् ॥आ । वाम् । धियः । ववृत्युः । अध्वरान् । उप । इमम् । इन्दुम् । मर्मृजन्त । वाजिनम् । आशुम् । अत्यम् । न । वाजिनम् । तेषाम् । पिबतम् । अस्मयू इत्यस्मयू । आ । नः । गन्तम् । इह । ऊत्या । इन्द्रवायू इति । सुतानाम् । अद्रिभिः । युवम् । मदाय । वाजदा । युवम् ॥ā | vām | dhiyaḥ | vavṛtyuḥ | adhvarān | upa | imam | indum | marmṛjanta | vājinam | āśum | atyam | na | vājinam | teṣām | pibatam | asmayū ity asma-yū | ā | naḥ | gantam | iha | ūtyā | indravāyūiti | sutānām | adri-bhiḥ | yuvam | madāya | vāja-dā | yuvam