Sukta 1.135
आ वां रथो नियुत्वान्वक्षदवसेऽभि प्रयांसि सुधितानि वीतये वायो हव्यानि वीतये । पिबतं मध्वो अन्धसः पूर्वपेयं हि वां हितम् । वायवा चन्द्रेण राधसा गतमिन्द्रश्च राधसा गतम् ॥
आ वां॒ रथो॑ नि॒युत्वा॑न्वक्ष॒दव॑से॒ऽभि प्रयां॑सि॒ सुधि॑तानि वी॒तये॒ वायो॑ ह॒व्यानि॑ वी॒तये॑ । पिब॑तं॒ मध्वो॒ अन्ध॑सः पूर्व॒पेयं॒ हि वां॑ हि॒तम् । वाय॒वा च॒न्द्रेण॒ राध॒सा ग॑त॒मिन्द्र॑श्च॒ राध॒सा ग॑तम् ॥
ā́ vāṃ rátho niyutvā́n vakṣad ávase ’bhí prayā́ṃsi su-dhítāni vītáye vāyo havyā́ni vītáye | píbatam mádhvo ándhasaḥ pūrva-péyaṃ hí vāṃ hitám | vāyavā́ candréṇa rā́dhasā gátam índraś ca rā́dhasā gatam ||
May your chariot with its yoked powers bear you here for our help, to the well-set offerings for the feast—O Vāyu, to the oblations for the feast. Drink both of you the honeyed pressed essence; for you two the first draught is appointed. O Vāyu, come with luminous plenitude; and Indra too, come with that plenitude.
आ । वा॒म् । रथः॑ । नि॒युत्वा॑न् । व॒क्ष॒त् । अव॑से । अ॒भि । प्रयां॑सि । सुऽधि॑तानि । वी॒तये॑ । वायो॒ इति॑ । ह॒व्यानि॑ । वी॒तये॑ । पिब॑तम् । मध्वः॑ । अन्ध॑सः । पू॒र्व॒ऽपेय॑म् । हि । वा॒म् । हि॒तम् । वायो॒ इति॑ । आ । च॒न्द्रेण॑ । राध॑सा । आ । ग॒त॒म् । इन्द्रः॑ । च॒ । राध॑सा । आ । ग॒त॒म् ॥आ । वाम् । रथः । नियुत्वान् । वक्षत् । अवसे । अभि । प्रयांसि । सुधितानि । वीतये । वायो इति । हव्यानि । वीतये । पिबतम् । मध्वः । अन्धसः । पूर्वपेयम् । हि । वाम् । हितम् । वायो इति । आ । चन्द्रेण । राधसा । आ । गतम् । इन्द्रः । च । राधसा । आ । गतम् ॥ā | vām | rathaḥ | niyutvān | vakṣat | avase | abhi | prayāṃsi | su-dhitāni | vītaye | vāyo iti | havyāni | vītaye | pibatam | madhvaḥ | andhasaḥ | pūrva-peyam | hi | vām | hitam | vāyo iti | ā | candreṇa | rādhasā | ā | gatam | indraḥ | ca | rādhasā | ā | gatam