Sukta 1.135
तुभ्यायं सोमः परिपूतो अद्रिभिः स्पार्हा वसानः परि कोशमर्षति शुक्रा वसानो अर्षति । तवायं भाग आयुषु सोमो देवेषु हूयते । वह वायो नियुतो याह्यस्मयुर्जुषाणो याह्यस्मयुः ॥
तुभ्या॒यं सोम॒: परि॑पूतो॒ अद्रि॑भिः स्पा॒र्हा वसा॑न॒: परि॒ कोश॑मर्षति शु॒क्रा वसा॑नो अर्षति । तवा॒यं भा॒ग आ॒युषु॒ सोमो॑ दे॒वेषु॑ हूयते । वह॑ वायो नि॒युतो॑ याह्यस्म॒युर्जु॑षा॒णो या॑ह्यस्म॒युः ॥
túbhyāyaṃ sómaḥ pári-pūto ádribhiḥ spārhā́ vasānáḥ pári kóśam arṣati śukrā́ vasānáḥ arṣati | tavā́yaṃ bhāgá ā́yuṣu sómo devéṣu hūyate | váha vāyo ni-yúto yāhy asma-yúr juṣāṇó yāhy asma-yúḥ ||
For you this Soma is purified by the pressing-stones; desirable, it flows clothed in brightness around the vessel—it streams in shining form. This is your portion among the life-powers; this Soma is invoked among the gods. Bring your yoked energies, O Vāyu; come to the one who seeks you, taking delight in us—come to the seeker in us.
तुभ्य॑ । अ॒यम् । सोमः॑ । परि॑ऽपूतः । अद्रि॑ऽभिः । स्पा॒र्हा । वसा॑नः । परि॑ । कोश॑म् । अ॒र्ष॒ति॒ । शु॒क्रा । वसा॑नः । अ॒र्ष॒ति॒ । तव॑ । अ॒यम् । भा॒गः । आ॒युषु॑ । सोमः॑ । दे॒वेषु॑ । हू॒य॒ते॒ । वह॑ । वा॒यो॒ इति॑ । नि॒ऽयुतः॑ । या॒हि॒ । अ॒स्म॒ऽयुः । जु॒षा॒णः । या॒हि॒ । अ॒स्म॒ऽयुः ॥तुभ्य । अयम् । सोमः । परिपूतः । अद्रिभिः । स्पार्हा । वसानः । परि । कोशम् । अर्षति । शुक्रा । वसानः । अर्षति । तव । अयम् । भागः । आयुषु । सोमः । देवेषु । हूयते । वह । वायो इति । नियुतः । याहि । अस्मयुः । जुषाणः । याहि । अस्मयुः ॥tubhya | ayam | somaḥ | pari-pūtaḥ | adri-bhiḥ | spārhā | vasānaḥ | pari | kośam | arṣati | śukrā | vasānaḥ | arṣati | tava | ayam | bhāgaḥ | āyuṣu | somaḥ | deveṣu | hūyate | vaha | vāyo iti | ni-yutaḥ | yāhi | asma-yuḥ | juṣāṇaḥ | yāhi | asma-yuḥ