Sukta 1.133
अवर्मह इन्द्र दादृहि श्रुधी नः शुशोच हि द्यौः क्षा न भीषाँ अद्रिवो घृणान्न भीषाँ अद्रिवः । शुष्मिन्तमो हि शुष्मिभिर्वधैरुग्रेभिरीयसे । अपूरुषघ्नो अप्रतीत शूर सत्वभिस्त्रिसप्तैः शूर सत्वभिः ॥
अ॒वर्म॒ह इ॑न्द्र दादृ॒हि श्रु॒धी न॑: शु॒शोच॒ हि द्यौः क्षा न भी॒षाँ अ॑द्रिवो घृ॒णान्न भी॒षाँ अ॑द्रिवः । शु॒ष्मिन्त॑मो॒ हि शु॒ष्मिभि॑र्व॒धैरु॒ग्रेभि॒रीय॑से । अपू॑रुषघ्नो अप्रतीत शूर॒ सत्व॑भिस्त्रिस॒प्तैः शू॑र॒ सत्व॑भिः ॥
avármaha indra dādṛhí śrudhī́ naḥ śuśóca hí dyáuḥ kṣā́ na bhīṣā́ṃ adrivo ghṛṇā́n na bhīṣā́ṃ adrivaḥ | śuṣmíntamo hí śuṣmíbhir vadháir ugrébhir ī́yase | apū́ruṣaghno apratī́ta śūra sátvabhis trisaptáiḥ śūra sátvabhiḥ ||
O Indra, strengthen the great protective power in us; listen to us. Heaven and earth do not fear, O wielder of the stone, nor does the blazing heat fear you. For you, most full of force, advance with forceful, terrible weapons. Slayer of the non-soul, unconquered hero, come with your powers—those thrice-seven energies of victorious being.
अ॒वः । म॒हः । इ॒न्द्र॒ । द॒दृ॒हि । श्रु॒धि । नः॒ । शु॒शोच॑ । हि । द्यौः । क्षाः । न । भी॒षा । अ॒द्रि॒ऽवः॒ । घृ॒णात् । न । भी॒षा । अ॒द्रि॒ऽवः॒ । शु॒ष्मिन्ऽत॑मः । हि । शु॒ष्मिऽभिः॑ । व॒धैः । उ॒ग्रेभिः॑ । ईय॑से । अपु॑रुषऽघ्नः । अ॒प्र॒ति॒ऽइ॒त॒ । शू॒र॒ । सत्व॑ऽभिः । त्रि॒ऽस॒प्तैः । शू॒र॒ । सत्व॑ऽभिः ॥अवः । महः । इन्द्र । ददृहि । श्रुधि । नः । शुशोच । हि । द्यौः । क्षाः । न । भीषा । अद्रिवः । घृणात् । न । भीषा । अद्रिवः । शुष्मिन्तमः । हि । शुष्मिभिः । वधैः । उग्रेभिः । ईयसे । अपुरुषघ्नः । अप्रतिइत । शूर । सत्वभिः । त्रिसप्तैः । शूर । सत्वभिः ॥avaḥ | mahaḥ | indra | dadṛhi | śrudhi | naḥ | śuśoca | hi | dyauḥ | kṣāḥ | na | bhīṣā | adri-vaḥ | ghṛṇāt | na | bhīṣā | adri-vaḥ | śuṣmin-tamaḥ | hi | śuṣmi-bhiḥ | vadhaiḥ | ugrebhiḥ | īyase | apuruṣa-ghnaḥ | aprati-ita | śūra | satva-bhiḥ | tri-saptaiḥ | śūra | satva-bhiḥ