Sukta 1.133
वनोति हि सुन्वन्क्षयं परीणसः सुन्वानो हि ष्मा यजत्यव द्विषो देवानामव द्विषः । सुन्वान इत्सिषासति सहस्रा वाज्यवृतः । सुन्वानायेन्द्रो ददात्याभुवं रयिं ददात्याभुवम् ॥
व॒नोति॒ हि सु॒न्वन्क्षयं॒ परी॑णसः सुन्वा॒नो हि ष्मा॒ यज॒त्यव॒ द्विषो॑ दे॒वाना॒मव॒ द्विष॑: । सु॒न्वा॒न इत्सि॑षासति स॒हस्रा॑ वा॒ज्यवृ॑तः । सु॒न्वा॒नायेन्द्रो॑ ददात्या॒भुवं॑ र॒यिं द॑दात्या॒भुव॑म् ॥
vanóti hí sunván kṣáyaṃ parī́ṇasaḥ sunvā́nō hí ṣmā́ yájaty áva dvíṣo devā́nām áva dvíṣaḥ | sunvā́na ít sisāsati sahásrā vāj́y avṛ́taḥ | sunvā́nāyéndro dadāty ābhúvaṃ rayíṃ dadāty ābhúvam ||
He who presses the Soma wins a dwelling and secure increase beyond the enclosing poverty; pressing, he truly sacrifices and casts down the haters of the gods, the haters within. The Soma-presser yearns for a thousandfold plenitude of force; to the presser Indra gives the all-becoming richness, the fullness of being.
व॒नोति॑ । हि । सु॒न्वन् । क्षय॑म् । परी॑णसः । सु॒न्वा॒नः । हि । स्म॒ । यज॑ति । अव॑ । द्विषः॑ । दे॒वाना॑म् । अव॑ । द्विषः॑ । सु॒न्वा॒नः । इत् । सि॒सा॒स॒ति॒ । स॒हस्रा॑ । वा॒जी । अवृ॑तः । सु॒न्वा॒नाय॑ । इन्द्रः॑ । द॒दा॒ति॒ । आ॒ऽभुव॑म् । र॒यिम् । द॒दा॒ति॒ । आ॒ऽभुव॑म् ॥वनोति । हि । सुन्वन् । क्षयम् । परीणसः । सुन्वानः । हि । स्म । यजति । अव । द्विषः । देवानाम् । अव । द्विषः । सुन्वानः । इत् । सिसासति । सहस्रा । वाजी । अवृतः । सुन्वानाय । इन्द्रः । ददाति । आभुवम् । रयिम् । ददाति । आभुवम् ॥vanoti | hi | sunvan | kṣayam | parīṇasaḥ | sunvānaḥ | hi | sma | yajati | ava | dviṣaḥ | devānām | ava | dviṣaḥ | sunvānaḥ | it | sisāsati | sahasrā | vājī | avṛtaḥ | sunvānāya | indraḥ | dadāti | ābhuvam | rayim | dadāti | ābhuvam