Sukta 1.133
यासां तिस्रः पञ्चाशतोऽभिव्लङ्गैरपावपः । तत्सु ते मनायति तकत्सु ते मनायति ॥
यासां॑ ति॒स्रः प॑ञ्चा॒शतो॑ऽभिव्ल॒ङ्गैर॒पाव॑पः । तत्सु ते॑ मनायति त॒कत्सु ते॑ मनायति ॥
yā́sāṃ tisráḥ pañcā́śato’bhivlaṅgáir apā́vapaḥ | tát su te manāyati takát su te manāyati ||
These are they whose ‘three and fifty’ (many-fold) powers you have scattered with your counter-thrusts; that indeed is your intention and your will—yes, that is your intention: to break the multiplying formations of the perverters.
यासा॑म् । ति॒स्रः । प॒ञ्चा॒शतः॑ । अ॒भि॒ऽव्ल॒ङ्गैः । अ॒प॒ऽअव॑पः । तत् । सु । ते॒ । म॒ना॒य॒ति॒ । त॒कत् । सु । ते॒ । म॒ना॒य॒ति॒ ॥यासाम् । तिस्रः । पञ्चाशतः । अभिव्लङ्गैः । अपअवपः । तत् । सु । ते । मनायति । तकत् । सु । ते । मनायति ॥yāsām | tisraḥ | pañcāśataḥ | abhi-vlaṅgaiḥ | apa-avapaḥ | tat | su | te | manāyati | takat | su | te | manāyati