Sukta 1.133
अभिव्लग्या चिदद्रिवः शीर्षा यातुमतीनाम् । छिन्धि वटूरिणा पदा महावटूरिणा पदा ॥
अ॒भि॒व्लग्या॑ चिदद्रिवः शी॒र्षा या॑तु॒मती॑नाम् । छि॒न्धि व॑टू॒रिणा॑ प॒दा म॒हाव॑टूरिणा प॒दा ॥
abhí-vlagyā́ cid adrivaḥ śīrṣā́ yātu-mátīnām | chindhí vaṭū́riṇā padā́ mahā́-vaṭūriṇā padā́ ||
Even when they leap upon you, O wielder of the stone, strike at the head of the sorcerous forces. Cut them down with your trampling foot—with your great trampling foot.
अ॒भि॒ऽव्लग्य॑ । चि॒त् । अ॒द्रि॒ऽवः॒ । शी॒र्षा । या॒तु॒ऽमती॑नाम् । छि॒न्धि । व॒टू॒रिणा॑ । प॒दा । म॒हाऽव॑टूरिणा । प॒दा ॥अभिव्लग्य । चित् । अद्रिवः । शीर्षा । यातुमतीनाम् । छिन्धि । वटूरिणा । पदा । महावटूरिणा । पदा ॥abhivlagya | cit | adri-vaḥ | śīrṣā | yātu-matīnām | chindhi | vaṭūriṇā | padā | mahāvaṭūriṇā | padā