Sukta 1.133
उभे पुनामि रोदसी ऋतेन द्रुहो दहामि सं महीरनिन्द्राः । अभिव्लग्य यत्र हता अमित्रा वैलस्थानं परि तृळ्हा अशेरन् ॥
उ॒भे पु॑नामि॒ रोद॑सी ऋ॒तेन॒ द्रुहो॑ दहामि॒ सं म॒हीर॑नि॒न्द्राः । अ॒भि॒व्लग्य॒ यत्र॑ ह॒ता अ॒मित्रा॑ वैलस्था॒नं परि॑ तृ॒ळ्हा अशे॑रन् ॥
ubhé punāmi ródasī ṛténa drúho dahāmi sáṃ mahī́r anindrā́ḥ | abhí-vlagya yátra hatā́ amítrā vaila-sthā́naṃ pári tṛḷhā́ aśéran ||
With ṛta I purify both worlds; I burn away the deceits; I set in right order the great spaces that are without Indra. Where, having leapt upon them, the foes are struck down, they lie crushed around their rocky seat.
उ॒भे । पु॒ना॒मि॒ । रोद॑सी॒ इति॑ । ऋ॒तेन॑ । द्रुहः॑ । द॒हा॒मि॒ । सम् । म॒हीः । अ॒नि॒न्द्राः । अ॒भि॒ऽव्लग्य॑ । यत्र॑ । ह॒ताः । अ॒मित्राः॑ । वै॒ल॒ऽस्था॒नम् । परि॑ । तृ॒ळ्हाः । अशे॑रन् ॥उभे । पुनामि । रोदसी इति । ऋतेन । द्रुहः । दहामि । सम् । महीः । अनिन्द्राः । अभिव्लग्य । यत्र । हताः । अमित्राः । वैलस्थानम् । परि । तृळ्हाः । अशेरन् ॥ubhe | punāmi | rodasī iti | ṛtena | druhaḥ | dahāmi | sam | mahīḥ | anindrāḥ | abhi-vlagya | yatra | hatāḥ | amitrāḥ | vaila-sthānam | pari | tṛḷhāḥ | aśeran