Sukta 1.132
नू इत्था ते पूर्वथा च प्रवाच्यं यदङ्गिरोभ्योऽवृणोरप व्रजमिन्द्र शिक्षन्नप व्रजम् । ऐभ्यः समान्या दिशास्मभ्यं जेषि योत्सि च । सुन्वद्भ्यो रन्धया कं चिदव्रतं हृणायन्तं चिदव्रतम् ॥
नू इ॒त्था ते॑ पू॒र्वथा॑ च प्र॒वाच्यं॒ यदङ्गि॑रो॒भ्योऽवृ॑णो॒रप॑ व्र॒जमिन्द्र॒ शिक्ष॒न्नप॑ व्र॒जम् । ऐभ्य॑: समा॒न्या दि॒शास्मभ्यं॑ जेषि॒ योत्सि॑ च । सु॒न्वद्भ्यो॑ रन्धया॒ कं चि॑दव्र॒तं हृ॑णा॒यन्तं॑ चिदव्र॒तम् ॥
nū́ itthā́ te pū́rvathā́ ca pra-vā́cyaṃ yád áṅgiro-bhyo 'vṛṇor ápa vrájām índra śíkṣann ápa vrájám | ébhyaḥ samānyā́ diśā́smábhyaṃ jeṣi yótsi ca | sunvád-bhyo randhayā kám cid avratáṃ hṛṇāyántaṃ cid avratám ||
Now indeed this also, as in the former way, is to be proclaimed: how for the Angirases you opened the pen—O Indra, teaching, you opened the enclosure. From that common direction win for us and fight. And for the pressers of Soma, subdue any lawless one—even one who rages in lawlessness.
नु । इ॒त्था । ते॒ । पू॒र्वथा॑ । च॒ । प्र॒ऽवाच्य॑म् । यत् । अङ्गि॑रःऽभ्यः । अवृ॑णोः । अप॑ । व्र॒जम् । इन्द्र॑ । शिक्ष॑न् । अप॑ । व्र॒जम् । एभ्यः॑ । स॒मा॒न्या । दि॒शा । अ॒स्मभ्य॑म् । जे॒षि॒ । योत्सि॑ । च॒ । सु॒न्वत्ऽभ्यः॑ । र॒न्ध॒य॒ । कम् । चि॒त् । अ॒व्र॒तम् । हृ॒णा॒यन्त॑म् । चि॒त् । अ॒व्र॒तम् ॥नु । इत्था । ते । पूर्वथा । च । प्रवाच्यम् । यत् । अङ्गिरःभ्यः । अवृणोः । अप । व्रजम् । इन्द्र । शिक्षन् । अप । व्रजम् । एभ्यः । समान्या । दिशा । अस्मभ्यम् । जेषि । योत्सि । च । सुन्वत्भ्यः । रन्धय । कम् । चित् । अव्रतम् । हृणायन्तम् । चित् । अव्रतम् ॥nu | itthā | te | pūrvathā | ca | pra-vācyam | yat | aṅgiraḥ-bhyaḥ | avṛṇoḥ | apa | vrajam | indra | śikṣan | apa | vrajam | ebhyaḥ | samānyā | diśā | asmabhyam | jeṣi | yotsi | ca | sunvat-bhyaḥ | randhaya | kam | cit | avratam | hṛṇāyantam | cit | avratam