Sukta 1.132
तत्तु प्रयः प्रत्नथा ते शुशुक्वनं यस्मिन्यज्ञे वारमकृण्वत क्षयमृतस्य वारसि क्षयम् । वि तद्वोचेरध द्वितान्तः पश्यन्ति रश्मिभिः । स घा विदे अन्विन्द्रो गवेषणो बन्धुक्षिद्भ्यो गवेषणः ॥
तत्तु प्रय॑: प्र॒त्नथा॑ ते शुशुक्व॒नं यस्मि॑न्य॒ज्ञे वार॒मकृ॑ण्वत॒ क्षय॑मृ॒तस्य॒ वार॑सि॒ क्षय॑म् । वि तद्वो॑चे॒रध॑ द्वि॒तान्तः प॑श्यन्ति र॒श्मिभि॑: । स घा॑ विदे॒ अन्विन्द्रो॑ ग॒वेष॑णो बन्धु॒क्षिद्भ्यो॑ ग॒वेष॑णः ॥
tát tu práyaḥ pratná-thā te śuśukvanáṃ yásmin yajñé vā́ram ákṛṇvata kṣáyam ṛtásya vā́rasi kṣáyam | ví tád vocer ádha dvitā́ ántar iti paśyanti raśmíbhíḥ | sá ghā vidé ánv índro gavéṣaṇo bandhukṣíd-bhyo gavéṣaṇaḥ ||
That forward impulse of yours, ancient in its way, resounding—by which in the sacrifice they made for themselves a wide opening, a dwelling of ṛta, a home. Declare it forth; then indeed they see within by the rays. Thus Indra, the seeker of the luminous herds, follows for the knower—seeker of the rays even for those bound in kinship and settlement.
तत् । तु । प्रयः॑ । प्र॒त्नऽथा॑ । ते॒ । शु॒शु॒क्व॒नम् । यस्मि॑न् । य॒ज्ञे । वार॑म् । अकृ॑ण्वत । क्षय॑म् । ऋ॒तस्य॑ । वाः । अ॒सि॒ । क्षय॑म् । वि । तत् । वो॒चेः॒ । अध॑ । द्वि॒ता । अ॒न्तरिति॑ । प॒श्य॒न्ति॒ । र॒श्मिऽभिः॑ । सः । घ॒ । वि॒दे॒ । अनु॑ । इन्द्रः॑ । गो॒ऽएष॑णः । ब॒न्धु॒क्षित्ऽभ्यः॑ । गो॒ऽएष॑णः ॥तत् । तु । प्रयः । प्रत्नथा । ते । शुशुक्वनम् । यस्मिन् । यज्ञे । वारम् । अकृण्वत । क्षयम् । ऋतस्य । वाः । असि । क्षयम् । वि । तत् । वोचेः । अध । द्विता । अन्तरिति । पश्यन्ति । रश्मिभिः । सः । घ । विदे । अनु । इन्द्रः । गोएषणः । बन्धुक्षित्भ्यः । गोएषणः ॥tat | tu | prayaḥ | pratna-thā | te | śuśukvanam | yasmin | yajñe | vāram | akṛṇvata | kṣayam | ṛtasya | vāḥ | asi | kṣayam | vi | tat | voceḥ | adha | dvitā | antariti | paśyanti | raśmi-bhiḥ | saḥ | gha | vide | anu | indraḥ | go--eṣaṇaḥ | bandhukṣit-bhyaḥ | go--eṣaṇaḥ