Sukta 1.132
स्वर्जेषे भर आप्रस्य वक्मन्युषर्बुधः स्वस्मिन्नञ्जसि क्राणस्य स्वस्मिन्नञ्जसि । अहन्निन्द्रो यथा विदे शीर्ष्णाशीर्ष्णोपवाच्यः । अस्मत्रा ते सध्र्यक्सन्तु रातयो भद्रा भद्रस्य रातयः ॥
स्व॒र्जे॒षे भर॑ आ॒प्रस्य॒ वक्म॑न्युष॒र्बुध॒: स्वस्मि॒न्नञ्ज॑सि क्रा॒णस्य॒ स्वस्मि॒न्नञ्ज॑सि । अह॒न्निन्द्रो॒ यथा॑ वि॒दे शी॒र्ष्णाशी॑र्ष्णोप॒वाच्य॑: । अ॒स्म॒त्रा ते॑ स॒ध्र्य॑क्सन्तु रा॒तयो॑ भ॒द्रा भ॒द्रस्य॑ रा॒तय॑: ॥
svaḥ-jéṣe bhára āprásya vákmany uṣár-búdhaḥ svasmín áñjasi krāṇásya svasmín áñjasi | áhann índro yáthā vidé śīrṣṇā́śīrṣṇopavā́cyaḥ | asmatrā́ te sadhryàk santu rātáyo bhadrā́ bhadrásya rātáyaḥ ||
For the winning of the luminous world, in the onset of the battle, at the utterance of the invoker—O Dawn-awakened Power—on your own straight path, on your own straight path of advancing force: as Indra struck down, for our knowing, the head upon head that must be named and exposed; so here may your gifts come straight to us—auspicious gifts of the auspicious.
स्वः॒ऽजे॒षे । भरे॑ । आ॒प्रस्य॑ । वक्म॑नि । उ॒षः॒ऽबुधः॑ । स्वस्मि॑न् । अञ्ज॑सि । क्रा॒णस्य॑ । स्वस्मि॑न् । अञ्ज॑सि । अह॑न् । इन्द्रः॑ । यथा॑ । वि॒दे । शी॒र्ष्णाऽशी॑र्ष्णा । उ॒प॒ऽवाच्यः॑ । अ॒स्म॒ऽत्रा । ते॒ । स॒ध्र्य॑क् । स॒न्तु॒ । रा॒तयः॑ । भ॒द्राः । भ॒द्रस्य॑ । रा॒तयः॑ ॥स्वःजेषे । भरे । आप्रस्य । वक्मनि । उषःबुधः । स्वस्मिन् । अञ्जसि । क्राणस्य । स्वस्मिन् । अञ्जसि । अहन् । इन्द्रः । यथा । विदे । शीर्ष्णाशीर्ष्णा । उपवाच्यः । अस्मत्रा । ते । सध्र्यक् । सन्तु । रातयः । भद्राः । भद्रस्य । रातयः ॥svaḥ-jeṣe | bhare | āprasya | vakmani | uṣaḥ-budhaḥ | svasmin | añjasi | krāṇasya | svasmin | añjasi | ahan | indraḥ | yathā | vide | śīrṣṇāśīrṣṇā | upa-vācyaḥ | asma-trā | te | sadhryak | santu | rātayaḥ | bhadrāḥ | bhadrasy | rātayaḥ