Sukta 1.131
उतो नो अस्या उषसो जुषेत ह्यर्कस्य बोधि हविषो हवीमभिः स्वर्षाता हवीमभिः । यदिन्द्र हन्तवे मृधो वृषा वज्रिञ्चिकेतसि । आ मे अस्य वेधसो नवीयसो मन्म श्रुधि नवीयसः ॥
उ॒तो नो॑ अ॒स्या उ॒षसो॑ जु॒षेत॒ ह्य१॒॑र्कस्य॑ बोधि ह॒विषो॒ हवी॑मभि॒: स्व॑र्षाता॒ हवी॑मभिः । यदि॑न्द्र॒ हन्त॑वे॒ मृधो॒ वृषा॑ वज्रि॒ञ्चिके॑तसि । आ मे॑ अ॒स्य वे॒धसो॒ नवी॑यसो॒ मन्म॑ श्रुधि॒ नवी॑यसः ॥
utó no asyā́ uṣásaḥ juṣéta hí arkásya bodhi havíṣo havī́ma-bhiḥ svaḥ-sā́tā havī́ma-bhiḥ | yád índra hántave mṛ́dho vṛ́ṣā vajrin cíketsi | ā́ me asyá vedhásaḥ návīyaso mánma śrudhi návīyasaḥ ||
And may this Dawn too take delight in us; for awaken to the chant, with our offerings, with our calls that win the luminous world. Since, O Indra, the Bull with the thunderbolt, thou discernest how to smite the assailing resistances, hear also my thought, this newer inspiration of the seer—hear the newer.
उ॒तो इति॑ । नः॒ । अ॒स्याः । उ॒षसः॑ । जु॒षेत॑ । हि । अ॒र्कस्य॑ । बो॒धि॒ । ह॒विषः॑ । हवी॑मऽभिः । स्वः॑ऽसाता । हवी॑मऽभिः । यत् । इ॒न्द्र॒ । हन्त॑वे । मृधः॑ । वृषा॑ । व॒ज्रि॒न् । चिके॑तसि । आ । मे॒ । अ॒स्य । वे॒धसः॑ । नवी॑यसः । मन्म॑ । श्रु॒धि॒ । नवी॑यसः ॥उतो इति । नः । अस्याः । उषसः । जुषेत । हि । अर्कस्य । बोधि । हविषः । हवीमभिः । स्वःसाता । हवीमभिः । यत् । इन्द्र । हन्तवे । मृधः । वृषा । वज्रिन् । चिकेतसि । आ । मे । अस्य । वेधसः । नवीयसः । मन्म । श्रुधि । नवीयसः ॥uto iti | naḥ | asyāḥ | uṣasaḥ | juṣeta | hi | arkasya | bodhi | haviṣaḥ | havīma-bh iḥ | svaḥ-sātā | havīma-bhiḥ | yat | indra | hantave | mṛdhaḥ | vṛṣā | vajrin | ciketasi | ā | me | asya | vedhasaḥ | navīyasaḥ | manma | śrudhi | navīyasaḥ