Sukta 1.131
त्वं तमिन्द्र वावृधानो अस्मयुरमित्रयन्तं तुविजात मर्त्यं वज्रेण शूर मर्त्यम् । जहि यो नो अघायति शृणुष्व सुश्रवस्तमः । रिष्टं न यामन्नप भूतु दुर्मतिर्विश्वाप भूतु दुर्मतिः ॥
त्वं तमि॑न्द्र वावृधा॒नो अ॑स्म॒युर॑मित्र॒यन्तं॑ तुविजात॒ मर्त्यं॒ वज्रे॑ण शूर॒ मर्त्य॑म् । ज॒हि यो नो॑ अघा॒यति॑ शृणु॒ष्व सु॒श्रव॑स्तमः । रि॒ष्टं न याम॒न्नप॑ भूतु दुर्म॒तिर्विश्वाप॑ भूतु दुर्म॒तिः ॥
tváṃ tám indra vavṛdhānáḥ asma-yúḥ amitra-yántam tuví-jāta mártyam vájreṇa śūra mártyam | jahí yó no aghāyáti śṛṇuṣvá suśrávas-tamaḥ | riṣṭáṃ ná yā́mann ápa bhūtu durmatír víśvā́ ápa bhūtu durmatíḥ ||
Thou, O Indra, growing in strength, smite with the thunderbolt, O hero, that mortal who is hostile and would harm us. Slay him who seeks our hurt; hear us, O most perfectly famed. Let not a wounding mischance be on our path; let every evil will be driven away—driven away.
त्वम् । तम् । इ॒न्द्र॒ । व॒वृ॒धा॒नः । अ॒स्म॒ऽयुः । अ॒मि॒त्र॒ऽयन्त॑म् । तु॒वि॒ऽजा॒त॒ । मर्त्य॑म् । वज्रे॑ण । शू॒र॒ । मर्त्य॑म् । ज॒हि । यः । नः॒ । अ॒घ॒ऽयति॑ । शृ॒णु॒ष्व । सु॒श्रवः॑ऽतमः । रि॒ष्टम् । न । याम॑न् । अप॑ । भू॒तु॒ । दुः॒ऽम॒तिः । विश्वा॑ । अप॑ । भू॒तु॒ । दुः॒ऽम॒तिः ॥त्वम् । तम् । इन्द्र । ववृधानः । अस्मयुः । अमित्रयन्तम् । तुविजात । मर्त्यम् । वज्रेण । शूर । मर्त्यम् । जहि । यः । नः । अघयति । शृणुष्व । सुश्रवःतमः । रिष्टम् । न । यामन् । अप । भूतु । दुःमतिः । विश्वा । अप । भूतु । दुःमतिः ॥tvam | tam | indra | vavṛdhānaḥ | asma-yuḥ | amitra-yantam | tuvi-jāta | martyam | vajreṇa | śūra | martyam | jahi | yaḥ | naḥ | agha-yati | śṛṇuṣva | suśravaḥ-tamaḥ | riṣṭam | na | yāman | apa | bhūtu | duḥ-matiḥ | viśvā | apa | bhūtu | duḥ-matiḥ