Sukta 1.131
आदित्ते अस्य वीर्यस्य चर्किरन्मदेषु वृषन्नुशिजो यदाविथ सखीयतो यदाविथ । चकर्थ कारमेभ्यः पृतनासु प्रवन्तवे । ते अन्यामन्यां नद्यं सनिष्णत श्रवस्यन्तः सनिष्णत ॥
आदित्ते॑ अ॒स्य वी॒र्य॑स्य चर्किर॒न्मदे॑षु वृषन्नु॒शिजो॒ यदावि॑थ सखीय॒तो यदावि॑थ । च॒कर्थ॑ का॒रमे॑भ्य॒: पृत॑नासु॒ प्रव॑न्तवे । ते अ॒न्याम॑न्यां न॒द्यं॑ सनिष्णत श्रव॒स्यन्त॑: सनिष्णत ॥
ā́d ít te asyá vī́ryasya carkiran mádeṣu vṛṣann uśíjo yád ā́vitha sakhiyató yád ā́vitha | cákartha kārám ebhyaḥ pṛ́tanāsu prá-vantave | te anyā́m-anyā́m nádyam saniṣṇata śravasyántaḥ saniṣṇata ||
Then indeed they proclaimed this thy hero-force in the ecstasies, O Bull: when thou didst aid the eager ones, when thou didst aid them as comrades. Thou madest for them a way of action in the battles to move forward; seeking glory they won, they won each river after river.
आत् । इत् । ते॒ । अ॒स्य । वी॒र्य॑स्य । च॒र्कि॒र॒न् । मदे॑षु । वृ॒ष॒न् । उ॒शिजः॑ । यत् । आवि॑थ । स॒खि॒ऽय॒तः । यत् । आवि॑थ । च॒कर्थ॑ । का॒रम् । ए॒भ्यः॒ । पृत॑नासु । प्रऽव॑न्तवे । ते । अ॒न्याम्ऽअ॑न्याम् । न॒द्य॑म् । स॒नि॒ष्ण॒त॒ । श्र॒व॒स्यन्तः॑ । स॒नि॒ष्ण॒त॒ ॥आत् । इत् । ते । अस्य । वीर्यस्य । चर्किरन् । मदेषु । वृषन् । उशिजः । यत् । आविथ । सखियतः । यत् । आविथ । चकर्थ । कारम् । एभ्यः । पृतनासु । प्रवन्तवे । ते । अन्याम्अन्याम् । नद्यम् । सनिष्णत । श्रवस्यन्तः । सनिष्णत ॥āt | it | te | asya | vīryasya | carkiran | madeṣu | vṛṣan | uśijaḥ | yat | āvitha | sakhi-yataḥ | yat | āvitha | cakartha | kāram | ebhyaḥ | pṛtanāsu | pra-vantave | te | anyām-anyām | nadyam | saniṣṇata | śravasyantaḥ | saniṣṇata