Sukta 1.131
विदुष्टे अस्य वीर्यस्य पूरवः पुरो यदिन्द्र शारदीरवातिरः सासहानो अवातिरः । शासस्तमिन्द्र मर्त्यमयज्युं शवसस्पते । महीममुष्णाः पृथिवीमिमा अपो मन्दसान इमा अपः ॥
वि॒दुष्टे॑ अ॒स्य वी॒र्य॑स्य पू॒रव॒: पुरो॒ यदि॑न्द्र॒ शार॑दीर॒वाति॑रः सासहा॒नो अ॒वाति॑रः । शास॒स्तमि॑न्द्र॒ मर्त्य॒मय॑ज्युं शवसस्पते । म॒हीम॑मुष्णाः पृथि॒वीमि॒मा अ॒पो म॑न्दसा॒न इ॒मा अ॒पः ॥
vidúṣ ṭe asyá vī́ryasya pūrávaḥ púraḥ yád índra śā́radīḥ ava-atíraḥ sasahānáḥ ava-atíraḥ | śā́sas tám índra mártyam áyajyum śavasaḥ pate | mahī́m ámuṣṇāḥ pṛthivī́m imā́ ápaḥ mandasāná imā́ ápaḥ ||
The ancients know of this thy hero-force: when, O Indra, thou didst break through the autumnal strongholds, conquering, breaking through. O Indra, Lord of might, chastise that mortal who is without sacrifice; in thy exultation thou hast not diminished the great Earth—thou hast released these waters, these waters.
वि॒दुः । ते॒ । अ॒स्य । वी॒र्य॑स्य । पू॒रवः॑ । पुरः॑ । यत् । इ॒न्द्र॒ । शार॑दीः । अ॒व॒ऽअति॑रः । स॒स॒हा॒नः । अ॒व॒ऽअति॑रः । शासः॑ । तम् । इ॒न्द्र॒ । मर्त्य॑म् । अय॑ज्युम् । श॒व॒सः॒ । प॒ते॒ । म॒हीम् । अ॒मु॒ष्णाः॒ । पृ॒थि॒वीम् । इ॒माः । अ॒पः । म॒न्द॒सा॒नः । इ॒माः । अ॒पः ॥विदुः । ते । अस्य । वीर्यस्य । पूरवः । पुरः । यत् । इन्द्र । शारदीः । अवअतिरः । ससहानः । अवअतिरः । शासः । तम् । इन्द्र । मर्त्यम् । अयज्युम् । शवसः । पते । महीम् । अमुष्णाः । पृथिवीम् । इमाः । अपः । मन्दसानः । इमाः । अपः ॥viduḥ | te | asya | vīryasya | pūravaḥ | puraḥ | yat | indra | śāradīḥ | ava-at iraḥ | sasahānaḥ | ava-atiraḥ | śāsaḥ | tam | indra | martyam | ayajyum | śavasaḥ | pate | mahīm | amuṣṇāḥ | pṛthivīm | imāḥ | apaḥ | mandasānaḥ | imāḥ | apaḥ