Sukta 1.131
वि त्वा ततस्रे मिथुना अवस्यवो व्रजस्य साता गव्यस्य निःसृजः सक्षन्त इन्द्र निःसृजः । यद्गव्यन्ता द्वा जना स्वर्यन्ता समूहसि । आविष्करिक्रद्वृषणं सचाभुवं वज्रमिन्द्र सचाभुवम् ॥
वि त्वा॑ ततस्रे मिथु॒ना अ॑व॒स्यवो॑ व्र॒जस्य॑ सा॒ता गव्य॑स्य नि॒:सृज॒: सक्ष॑न्त इन्द्र नि॒:सृज॑: । यद्ग॒व्यन्ता॒ द्वा जना॒ स्व१॒॑र्यन्ता॑ स॒मूह॑सि । आ॒विष्करि॑क्र॒द्वृष॑णं सचा॒भुवं॒ वज्र॑मिन्द्र सचा॒भुव॑म् ॥
ví tvā tatasre mithunā́ avasyávo vrajásya sātā́ gávyasya níḥ-sṛjaḥ sákṣanta indra níḥ-sṛjaḥ | yád gavyántā dvā́ jánā svàr-yántā sam-ū́hasi | āvíṣ karikrad vṛ́ṣaṇaṃ sacā-bhúvaṃ vájram indra sacā-bhúvam ||
Toward thee the twin seekers have stretched out, desiring aid, to win the enclosure and to release the radiant herds; they are able, O Indra, to release them. When two peoples seeking the cows, seeking the Light, come together in thy joining, then thou makest manifest the bull-force, the companion thunderbolt—O Indra, the thunderbolt that goes with thee.
वि । त्वा॒ । त॒त॒स्रे॒ । मि॒थु॒नाः । अ॒व॒स्यवः॑ । व्र॒जस्य॑ । सा॒ता । गव्य॑स्य । निः॒ऽसृजः॑ । सक्ष॑न्तः । इ॒न्द्र॒ । निः॒ऽसृजः॑ । यत् । ग॒व्यन्ता॑ । द्वा । जना॑ । स्वः॑ । यन्ता॑ । स॒म्ऽऊह॑सि । आ॒विः । करि॑क्रत् । वृष॑णम् । स॒चा॒ऽभुवम् । वज्र॑म् । इ॒न्द्र॒ । स॒चा॒ऽभुव॑म् ॥वि । त्वा । ततस्रे । मिथुनाः । अवस्यवः । व्रजस्य । साता । गव्यस्य । निःसृजः । सक्षन्तः । इन्द्र । निःसृजः । यत् । गव्यन्ता । द्वा । जना । स्वः । यन्ता । सम्ऊहसि । आविः । करिक्रत् । वृषणम् । सचाभुवम् । वज्रम् । इन्द्र । सचाभुवम् ॥vi | tvā | tatasre | mithunāḥ | avasyavaḥ | vrajasya | sātā | gavyasya | niḥ-sṛjaḥ | sakṣantaḥ | indra | niḥ-sṛjaḥ | yat | gavyantā | dvā | janā | svaḥ | yantā | sam-ūhasi | āviḥ | karikrat | vṛṣaṇam | sacābhuvam | vajram | indra | sacābhuvam