Sukta 1.131
विश्वेषु हि त्वा सवनेषु तुञ्जते समानमेकं वृषमण्यवः पृथक्स्वः सनिष्यवः पृथक् । तं त्वा नावं न पर्षणिं शूषस्य धुरि धीमहि । इन्द्रं न यज्ञैश्चितयन्त आयवः स्तोमेभिरिन्द्रमायवः ॥
विश्वे॑षु॒ हि त्वा॒ सव॑नेषु तु॒ञ्जते॑ समा॒नमेकं॒ वृष॑मण्यव॒: पृथ॒क्स्व॑: सनि॒ष्यव॒: पृथ॑क् । तं त्वा॒ नावं॒ न प॒र्षणिं॑ शू॒षस्य॑ धु॒रि धी॑महि । इन्द्रं॒ न य॒ज्ञैश्चि॒तय॑न्त आ॒यव॒: स्तोमे॑भि॒रिन्द्र॑मा॒यव॑: ॥
víśveṣu hí tvā sávaneṣu tuñjáte samānám ékaṃ vṛ́ṣa-manyavaḥ pṛthák svàr saniṣyávaḥ pṛthák | táṃ tvā nā́vaṃ ná párṣaṇiṃ śū́ṣasya dhurí dhīmahi | índraṃ ná yajñáir citáyanta ā́yavaḥ stómebhir índram ā́yavaḥ ||
In all the pressings they urge thee on—one and the same Indra—yet the strong-willed seek thee each in his own way, each for his own heaven. Thee we set as a boat, as a ferry, upon the yoke of the onrush. The seekers kindle Indra with sacrifices; with hymns they awaken Indra.
विश्वे॑षु । हि । त्वा॒ । सव॑नेषु । तु॒ञ्जते॑ । स॒मा॒नम् । एक॑म् । वृष॑ऽमन्यवः । पृथ॑क् । स्वरिति॑ स्वः॑ । स॒नि॒ष्यवः॑ । पृथ॑क् । तम् । त्वा॒ । नाव॑म् । न । प॒र्षणि॑म् । शू॒षस्य॑ । धु॒रि । धी॒म॒हि॒ । इन्द्र॑म् । न । य॒ज्ञैः । चि॒तय॑न्तः । आ॒यवः॑ । स्तोमे॑भिः । इन्द्र॑म् । आ॒यवः॑ ॥विश्वेषु । हि । त्वा । सवनेषु । तुञ्जते । समानम् । एकम् । वृषमन्यवः । पृथक् । स्वरिति स्वः । सनिष्यवः । पृथक् । तम् । त्वा । नावम् । न । पर्षणिम् । शूषस्य । धुरि । धीमहि । इन्द्रम् । न । यज्ञैः । चितयन्तः । आयवः । स्तोमेभिः । इन्द्रम् । आयवः ॥viśveṣu | hi | tvā | savaneṣu | tuñjate | samānam | ekam | vṛṣa-manyavaḥ | pṛthak | svaāṛḥritisvaḥ | saniṣyavaḥ | pṛthak | tam | tvā | nāvam | na | parṣaṇi m | śūṣasya | dhuri | dhīmahi | indram | na | yajñaiḥ | citayantaḥ | āyavaḥ | stomebhiḥ | indram | āyavaḥ