Sukta 1.131
इन्द्राय हि द्यौरसुरो अनम्नतेन्द्राय मही पृथिवी वरीमभिर्द्युम्नसाता वरीमभिः । इन्द्रं विश्वे सजोषसो देवासो दधिरे पुरः । इन्द्राय विश्वा सवनानि मानुषा रातानि सन्तु मानुषा ॥
इन्द्रा॑य॒ हि द्यौरसु॑रो॒ अन॑म्न॒तेन्द्रा॑य म॒ही पृ॑थि॒वी वरी॑मभिर्द्यु॒म्नसा॑ता॒ वरी॑मभिः । इन्द्रं॒ विश्वे॑ स॒जोष॑सो दे॒वासो॑ दधिरे पु॒रः । इन्द्रा॑य॒ विश्वा॒ सव॑नानि॒ मानु॑षा रा॒तानि॑ सन्तु॒ मानु॑षा ॥
índrāya hí dyáur ásuro ánamnata índrāya mahī́ pṛthivī́ várīma-bhir dyumná-sātā várīma-bhiḥ | índraṃ víśve sa-jóṣaso devā́so dadhire púraḥ | índrāya víśvā sávānāni mā́nuṣā rātā́ni santu mā́nuṣā ||
For Indra indeed the heaven, the sovereign, has bowed down; for Indra the great Earth has widened with her widenesses, winning the luminous might by her widenesses. All the gods in one accord have set Indra in front. For Indra let all human pressings be gifts—human offerings that open the way for the divine power.
इन्द्रा॑य । हि । द्यौः । असु॑रः । अन॑म्नत । इन्द्रा॑य । म॒ही । पृ॒थि॒वी । वरी॑मऽभिः । द्यु॒म्नऽसा॑ता । वरी॑मऽभिः । इन्द्र॑म् । विश्वे॑ । स॒ऽजोष॑सः । दे॒वासः॑ । द॒धि॒रे॒ । पु॒रः । इन्द्रा॑य । विश्वा॑ । सव॑नानि । मानु॑षा । रा॒तानि॑ । स॒न्तु॒ । मानु॑षा ॥इन्द्राय । हि । द्यौः । असुरः । अनम्नत । इन्द्राय । मही । पृथिवी । वरीमभिः । द्युम्नसाता । वरीमभिः । इन्द्रम् । विश्वे । सजोषसः । देवासः । दधिरे । पुरः । इन्द्राय । विश्वा । सवनानि । मानुषा । रातानि । सन्तु । मानुषा ॥indrāya | hi | dyauḥ | asuraḥ | anamnata | indrāya | mahī | pṛthivī | varīma-bhiḥ | dyumna-sātā | varīma-bhiḥ | indram | viśve | sa-joṣasaḥ | devāsaḥ | dadhire | puraḥ | indrāya | viśvā | savanāni | mānuṣā | rātāni | santu | mānuṣā