Sukta 1.130
दादृहाणो वज्रमिन्द्रो गभस्त्योः क्षद्मेव तिग्ममसनाय सं श्यदहिहत्याय सं श्यत् । संविव्यान ओजसा शवोभिरिन्द्र मज्मना । तष्टेव वृक्षं वनिनो नि वृश्चसि परश्वेव नि वृश्चसि ॥
दा॒दृ॒हा॒णो वज्र॒मिन्द्रो॒ गभ॑स्त्यो॒: क्षद्मे॑व ति॒ग्ममस॑नाय॒ सं श्य॑दहि॒हत्या॑य॒ सं श्य॑त् । सं॒वि॒व्या॒न ओज॑सा॒ शवो॑भिरिन्द्र म॒ज्मना॑ । तष्टे॑व वृ॒क्षं व॒निनो॒ नि वृ॑श्चसि पर॒श्वेव॒ नि वृ॑श्चसि ॥
dādṛhāṇó vájram índro gábhastyōḥ | kṣádma-iva tigmáṃ ásanāya sáṃ śyát ahi-hátyāya sáṃ śyát || saṃ-vivyānó ójasā śávobhir indra májmanā | taṣṭā-iva vṛ́kṣaṃ vánino ní vṛścasi paraśvā-iva ní vṛścasi ||
Indra, gripping firm the thunder-force in his hands, hurls it like a sharpened blade to break the cover of falsehood; he drives it forth for the slaying of the Serpent-power. Wrapped in strength and impelled by many energies, O Indra, by thy vast might thou cuttest down the obstructing growth like a carpenter felling a tree, like an axe cleaving it at the root.
दा॒दृ॒हा॒णः । वज्र॑म् । इन्द्रः॑ । गभ॑स्त्योः । क्षद्म॑ऽइव । ति॒ग्मम् । अस॑नाय । सम् । श्य॒त् । अ॒हि॒ऽहत्या॑य । सम् । श्य॒त् । स॒म्ऽवि॒व्या॒नः । ओज॑सा । शवः॑ऽभिः । इ॒न्द्र॒ । म॒ज्मना॑ । तष्टा॑ऽइव । वृ॒क्षम् । व॒निनः॑ । नि । वृ॒श्च॒सि॒ । प॒र॒श्वाऽइ॑व । नि । वृ॒श्च॒सि॒ ॥दादृहाणः । वज्रम् । इन्द्रः । गभस्त्योः । क्षद्मइव । तिग्मम् । असनाय । सम् । श्यत् । अहिहत्याय । सम् । श्यत् । सम्विव्यानः । ओजसा । शवःभिः । इन्द्र । मज्मना । तष्टाइव । वृक्षम् । वनिनः । नि । वृश्चसि । परश्वाइव । नि । वृश्चसि ॥dādṛhāṇaḥ | vajram | indraḥ | gabhastyoḥ | kṣadma-iva | tigmam | asanāya | sam | śyat | ahi-hatyāya | sam | śyat | sam-vivyānaḥ | ojasā | śavaḥ-bhiḥ | indra | majmanā | taṣṭāiva | vṛkṣam | vaninaḥ | ni | vṛścasi | paraśvāiva | ni | vṛścasi