Sukta 1.130
अविन्दद्दिवो निहितं गुहा निधिं वेर्न गर्भं परिवीतमश्मन्यनन्ते अन्तरश्मनि । व्रजं वज्री गवामिव सिषासन्नङ्गिरस्तमः । अपावृणोदिष इन्द्रः परीवृता द्वार इषः परीवृताः ॥
अवि॑न्दद्दि॒वो निहि॑तं॒ गुहा॑ नि॒धिं वेर्न गर्भं॒ परि॑वीत॒मश्म॑न्यन॒न्ते अ॒न्तरश्म॑नि । व्र॒जं व॒ज्री गवा॑मिव॒ सिषा॑स॒न्नङ्गि॑रस्तमः । अपा॑वृणो॒दिष॒ इन्द्र॒: परी॑वृता॒ द्वार॒ इष॒: परी॑वृताः ॥
ávindad divó níhitaṁ gúhā nidhíṁ vér ná gárbhaṁ párivītam áśmany anánté antár áśmani | vrajáṁ vajrī́ gávām iva síṣāsann áṅgiras-tamáḥ | ápāvṛṇod íṣa índráḥ párīvṛtā dvā́ra íṣaḥ párīvṛtāḥ ||
He found the treasure hidden in the cavern, like a womb enclosed in the stone, in the endless inner rock. The thunder-wielder, most Angiras-like, desiring the cattle of light, broke open the pen. Indra uncovered the streams of impulsion; the doors that were shut in upon the impulsions, he opened—those doors that were shut in.
अवि॑न्दत् । दि॒वः । निऽहि॑तम् । गुहा॑ । नि॒धि॑म् । वेः । न । गर्भ॑म् । परि॑ऽवीतम् । अश्म॑नि । अ॒न॒न्ते । अ॒न्तः । अश्म॑नि । व्र॒जम् । व॒ज्री । गवा॑म्ऽइव । सिसा॑सन् । अङ्गि॑रःऽतमः । अप॑ । अ॒वृ॒णो॒त् । इषः॑ । इन्द्रः॑ । परि॑ऽवृताः । द्वारः॑ । इषः॑ । परि॑ऽवृताः ॥अविन्दत् । दिवः । निहितम् । गुहा । निधिम् । वेः । न । गर्भम् । परिवीतम् । अश्मनि । अनन्ते । अन्तः । अश्मनि । व्रजम् । वज्री । गवाम्इव । सिसासन् । अङ्गिरःतमः । अप । अवृणोत् । इषः । इन्द्रः । परिवृताः । द्वारः । इषः । परिवृताः ॥avindat | divaḥ | ni-hitam | guhā | nidhim | veḥ | na | garbham | pari-vītam | aśmani | anante | antaḥ | aśmani | vrajam | vajrī | gavām-iva | sisāsan | aṅgiraḥ-tamaḥ | apa | avṛṇot | iṣaḥ | indraḥ | pari-vṛtāḥ | dvāraḥ | iṣaḥ | pari-vṛtāḥ