Sukta 1.130
पिबा सोममिन्द्र सुवानमद्रिभिः कोशेन सिक्तमवतं न वंसगस्तातृषाणो न वंसगः । मदाय हर्यताय ते तुविष्टमाय धायसे । आ त्वा यच्छन्तु हरितो न सूर्यमहा विश्वेव सूर्यम् ॥
पिबा॒ सोम॑मिन्द्र सुवा॒नमद्रि॑भि॒: कोशे॑न सि॒क्तम॑व॒तं न वंस॑गस्तातृषा॒णो न वंस॑गः । मदा॑य हर्य॒ताय॑ ते तु॒विष्ट॑माय॒ धाय॑से । आ त्वा॑ यच्छन्तु ह॒रितो॒ न सूर्य॒महा॒ विश्वे॑व॒ सूर्य॑म् ॥
píbā sómam indra suvā́nám adríbhiḥ kóśena siktám avatáṁ ná vaṁságaḥ tatṛṣāṇó ná vaṁságaḥ | mádāya haryatā́ya te tuvī́ṣṭamāya dhā́yase | ā́ tvā yácchantu haríto ná sū́ryam áhā víśveva sū́ryam ||
Drink the Soma, O Indra, pressed by the stones, poured into the vessel, like one who descends to the wellspring—like one thirsting who descends. For thy ecstasy, for thy glad delight, for thy most puissant drinking: may the tawny steeds bring thee here as they bring the Sun across all the days, as across all the days the Sun.
पिब॑ । सोम॑म् । इ॒न्द्र॒ । सु॒वा॒नम् । अद्रि॑ऽभिः । कोशे॑न । सि॒क्तम् । अ॒व॒तम् । न । वंस॑गः । त॒तृ॒षा॒णः । न । वंस॑गः । मदा॑य । ह॒र्य॒ताय॑ । ते॒ । तु॒विःऽत॑माय॒ । धाय॑से । आ । त्वा॒ । य॒च्छ॒न्तु॒ । ह॒रितः॑ । न । सूर्य॑म् । अहा॑ । विश्वा॑ऽइव । सूर्य॑म् ॥पिब । सोमम् । इन्द्र । सुवानम् । अद्रिभिः । कोशेन । सिक्तम् । अवतम् । न । वंसगः । ततृषाणः । न । वंसगः । मदाय । हर्यताय । ते । तुविःतमाय । धायसे । आ । त्वा । यच्छन्तु । हरितः । न । सूर्यम् । अहा । विश्वाइव । सूर्यम् ॥piba | somam | indra | suvānam | adri-bhiḥ | kośena | siktam | avatam | na | vaṃsagaḥ | tatṛṣāṇaḥ | na | vaṃsagaḥ | madāya | haryatāya | te | tuviḥ-tamāya | dhāyase | ā | tvā | yacchantu | haritaḥ | na | sūryam | ahā | viśvāiva | sūryam