Sukta 1.13
वि श्रयन्तामृतावृधो द्वारो देवीरसश्चतः । अद्या नूनं च यष्टवे ॥
वि श्र॑यन्तामृता॒वृधो॒ द्वारो॑ दे॒वीर॑स॒श्चत॑: । अ॒द्या नू॒नं च॒ यष्ट॑वे ॥
ví śrayantām ṛtāvṛ́dho dvā́ro devī́r asaścátaḥ | adyā́ nū́naṃ ca yáṣṭave ||
Let the divine doors, increasers of the Right, open wide—unfailing—today and now for the act of offering: that the passage to the higher world be made clear.
वि । श्र॒य॒न्ता॒म् । ऋ॒त॒ऽवृधः॑ । द्वारः॑ । दे॒वीः । अ॒स॒श्चतः॑ । अ॒द्य । नू॒नम् । च॒ । यष्ट॑वे ॥वि । श्रयन्ताम् । ऋतवृधः । द्वारः । देवीः । असश्चतः । अद्य । नूनम् । च । यष्टवे ॥vi | śrayantām | ṛta-vṛdhaḥ | dvāraḥ | devīḥ | asaścataḥ | adya | nūnam | ca | yaṣṭave