Sukta 1.13
नक्तोषासा सुपेशसास्मिन्यज्ञ उप ह्वये । इदं नो बर्हिरासदे ॥
नक्तो॒षासा॑ सु॒पेश॑सा॒स्मिन्य॒ज्ञ उप॑ ह्वये । इ॒दं नो॑ ब॒र्हिरा॒सदे॑ ॥
náktōṣā́sā supéśasā asmín yajñá úpa hvaye | idáṃ no bárhir āsáde ||
Night and Dawn, beautiful in form, I call near to this sacrifice; sit upon this our barhis—enter the prepared seat of consciousness.
नक्तो॒षासा॑ । सु॒ऽपेश॑सा । अ॒स्मिन् । य॒ज्ञे । उप॑ । ह्व॒ये॒ । इ॒दम् । नः॒ । ब॒र्हिः । आ॒ऽसदे॑ ॥नक्तोषासा । सुपेशसा । अस्मिन् । यज्ञे । उप । ह्वये । इदम् । नः । बर्हिः । आसदे ॥naktoṣāsā | su-peśasā | asmin | yajñe | upa | hvaye | idam | naḥ | barhiḥ | āsade