Sukta 1.13
स्तृणीत बर्हिरानुषग्घृतपृष्ठं मनीषिणः । यत्रामृतस्य चक्षणम् ॥
स्तृ॒णी॒त ब॒र्हिरा॑नु॒षग्घृ॒तपृ॑ष्ठं मनीषिणः । यत्रा॒मृत॑स्य॒ चक्ष॑णम् ॥
stṛṇītá bárhir ānuṣág ghṛtápṛṣṭhaṃ manīṣíṇaḥ | yátrāmṛ́tasya cákṣaṇam ||
Spread the sacred seat (barhis) in ordered succession, O wise ones—its back anointed with ghee—there where the vision of immortality is beheld.
स्तृ॒णी॒त । ब॒र्हिः । आ॒नु॒षक् । घृ॒तऽपृ॑ष्ठम् । म॒नी॒षि॒णः॒ । यत्र॑ । अ॒मृत॑स्य । चक्ष॑णम् ॥स्तृणीत । बर्हिः । आनुषक् । घृतपृष्ठम् । मनीषिणः । यत्र । अमृतस्य । चक्षणम् ॥stṛṇīta | barhiḥ | ānuṣak | ghṛta-pṛṣṭham | manīṣiṇaḥ | yatra | amṛtasya | cakṣaṇam