Sukta 1.13
नराशंसमिह प्रियमस्मिन्यज्ञ उप ह्वये । मधुजिह्वं हविष्कृतम् ॥
नरा॒शंस॑मि॒ह प्रि॒यम॒स्मिन्य॒ज्ञ उप॑ ह्वये । मधु॑जिह्वं हवि॒ष्कृत॑म् ॥
narāśáṃsam ihá priyám asmín yajñá úpa hvaye | mádhujihvaṃ haviṣkṛ́tam ||
Nārāśaṃsa, the beloved, I call here to this sacrifice—honey-tongued, the fashioner of the offering—so the speech becomes sweetness that carries the oblation of our will.
नरा॒शंस॑म् । इ॒ह । प्रि॒यम् । अ॒स्मिन् । य॒ज्ञे । उप॑ । ह्व॒ये॒ । मधु॑ऽजिह्वम् । ह॒विः॒ऽकृत॑म् ॥नराशंसम् । इह । प्रियम् । अस्मिन् । यज्ञे । उप । ह्वये । मधुजिह्वम् । हविःकृतम् ॥narāśaṃsam | iha | priyam | asmin | yajñe | upa | hvaye | madhu-jihvam | haviḥ-kṛtam