Sukta 1.13
इह त्वष्टारमग्रियं विश्वरूपमुप ह्वये । अस्माकमस्तु केवलः ॥
इ॒ह त्वष्टा॑रमग्रि॒यं वि॒श्वरू॑प॒मुप॑ ह्वये । अ॒स्माक॑मस्तु॒ केव॑लः ॥
ihá tváṣṭāram agriyáṃ viśvárūpam úpa hvaye | asmā́kam astu kévalaḥ ||
Here I call near Tvaṣṭṛ, the foremost shaper, the One of all forms; may he become wholly ours—so that the forming power in us fashions the being into a true and harmonious figure of the divine intention.
इ॒ह । त्वष्टा॑रम् । अ॒ग्रि॒यम् । वि॒श्वऽरू॑पम् । उप॑ । ह्व॒ये॒ । अ॒स्माक॑म् । अ॒स्तु॒ । केव॑लः ॥इह । त्वष्टारम् । अग्रियम् । विश्वरूपम् । उप । ह्वये । अस्माकम् । अस्तु । केवलः ॥iha | tvaṣṭāram | agriyam | viśva-rūpam | upa | hvaye | asmākam | astu | kevalaḥ