Sukta 1.13
अव सृजा वनस्पते देव देवेभ्यो हविः । प्र दातुरस्तु चेतनम् ॥
अव॑ सृजा वनस्पते॒ देव॑ दे॒वेभ्यो॑ ह॒विः । प्र दा॒तुर॑स्तु॒ चेत॑नम् ॥
áva sṛja vanaspate déva devébhyo havíḥ | prá dātúr astu cétanam ||
Release and send forth, O Lord of the Wood, the offering to the gods; and may the giver’s awareness be awakened and led forward—so the act of giving becomes conscious, luminous, and rightly ordered.
अव॑ । सृ॒ज॒ । व॒न॒स्प॒ते॒ । देव॑ । दे॒वेभ्यः॑ । ह॒विः । प्र । दा॒तुः । अ॒स्तु॒ । चेत॑नम् ॥अव । सृज । वनस्पते । देव । देवेभ्यः । हविः । प्र । दातुः । अस्तु । चेतनम् ॥ava | sṛja | vanaspate | deva | devebhyaḥ | haviḥ | pra | dātuḥ | astu | cetanam