Sukta 1.126
पूर्वामनु प्रयतिमा ददे वस्त्रीन्युक्ताँ अष्टावरिधायसो गाः । सुबन्धवो ये विश्या इव व्रा अनस्वन्तः श्रव ऐषन्त पज्राः ॥
पूर्वा॒मनु॒ प्रय॑ति॒मा द॑दे व॒स्त्रीन्यु॒क्ताँ अ॒ष्टाव॒रिधा॑यसो॒ गाः । सु॒बन्ध॑वो॒ ये वि॒श्या॑ इव॒ व्रा अन॑स्वन्त॒: श्रव॒ ऐष॑न्त प॒ज्राः ॥
pū́rvām ánu práyatim ā́ dade vaḥ trī́n yuktā́m̐ aṣṭā́v aridhā́yaso gā́ḥ | subándhavo yé viśyā́ iva vrā́ anasvántáḥ śráva áiṣanta pajrā́ḥ ||
Following the former giving, he gave you a new advance: three yoked (forces) and eight cows rich in unfailing yield. Well-knit in union, like clans within their enclosure, the Pajras—though without wagons—sought the śravas, the inner renown of truth.
पूर्वा॑म् । अनु॑ । प्रऽय॑तिम् । आ । द॒दे॒ । वः॒ । त्रीन् । यु॒क्तान् । अ॒ष्टौ । अ॒रिऽधा॑यसः । गाः । सु॒ऽबन्ध॑वः । ये । वि॒श्याः॑ऽइव । व्राः । अन॑स्वन्तः । श्रवः॑ । ऐष॑न्त । प॒ज्राः ॥पूर्वाम् । अनु । प्रयतिम् । आ । ददे । वः । त्रीन् । युक्तान् । अष्टौ । अरिधायसः । गाः । सुबन्धवः । ये । विश्याःइव । व्राः । अनस्वन्तः । श्रवः । ऐषन्त । पज्राः ॥pūrvām | anu | pra-yatim | ā | dade | vaḥ | trīn | yuktān | aṣṭau | ari-dhāyasaḥ | gāḥ | su-bandhavaḥ | ye | viśyāḥ-iva | vrāḥ | anasvantaḥ | śravaḥ | aiṣanta | pajrāḥ